पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Shamku - Shtheevana)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

 

Shamku -  Shankushiraa  ( words like Shakata/chariot, Shakuna/omens, Shakuni, Shakuntalaa, Shakti/power, Shakra, Shankara, Shanku, Shankukarna etc. )

Shankha - Shataakshi (Shankha, Shankhachooda, Shachi, Shanda, Shatadhanvaa, Shatarudriya etc.)

Shataananda - Shami (Shataananda, Shataaneeka, Shatru / enemy, Shatrughna, Shani / Saturn, Shantanu, Shabara, Shabari, Shama, Shami etc.)

Shameeka - Shareera ( Shameeka, Shambara, Shambhu, Shayana / sleeping, Shara, Sharada / winter, Sharabha, Shareera / body etc.)

Sharkaraa - Shaaka   (Sharkaraa / sugar, Sharmishthaa, Sharyaati, Shalya, Shava, Shasha, Shaaka etc.)

Shaakataayana - Shaalagraama (Shaakambhari, Shaakalya, Shaandili, Shaandilya, Shaanti / peace, Shaaradaa, Shaardoola, Shaalagraama etc.)

Shaalaa - Shilaa  (Shaalaa, Shaaligraama, Shaalmali, Shaalva, Shikhandi, Shipraa, Shibi, Shilaa / rock etc)sciple, Sheela, Shuka / parrot etc.)

Shilaada - Shiva  ( Shilpa, Shiva etc. )

Shivagana - Shuka (  Shivaraatri, Shivasharmaa, Shivaa, Shishupaala, Shishumaara, Shishya/de

Shukee - Shunahsakha  (  Shukra/venus, Shukla, Shuchi, Shuddhi, Shunah / dog, Shunahshepa etc.)

Shubha - Shrigaala ( Shubha / holy, Shumbha, Shuukara, Shoodra / Shuudra, Shuunya / Shoonya, Shoora, Shoorasena, Shuurpa, Shuurpanakhaa, Shuula, Shrigaala / jackal etc. )

Shrinkhali - Shmashaana ( Shringa / horn, Shringaar, Shringi, Shesha, Shaibyaa, Shaila / mountain, Shona, Shobhaa / beauty, Shaucha, Shmashaana etc. )

Shmashru - Shraanta  (Shyaamalaa, Shyena / hawk, Shraddhaa, Shravana, Shraaddha etc. )

Shraavana - Shrutaayudha  (Shraavana, Shree, Shreedaamaa, Shreedhara, Shreenivaasa, Shreemati, Shrutadeva etc.)

Shrutaartha - Shadaja (Shruti, Shwaana / dog, Shweta / white, Shwetadweepa etc.)

Shadaanana - Shtheevana (Shadaanana, Shadgarbha, Shashthi, Shodasha, Shodashi etc.)

 

 

श्वा

४.१२ श्वात्राः पीता भवत यूयमापो इति-

एका साधना श्वा साधना अस्ति, एका अश्वा, अद्यैव। सोमयागे उद्देश्यं भवति यत् सर्वस्य सोमस्य परिष्कारं अद्यैव भवतु, न श्वकाले। किन्तु व्यावहारिकरूपेण अयं संभवं नास्ति। अतएव, तृतीयसवनकालोपरान्तं यस्य सोमस्य परिष्कारं न भवति, तस्य परिष्कारं श्वकाले करणीयं भवति। दीक्षायाः संदर्भे अपसः अपेक्षा अस्ति यत् ते श्वात्राः भवन्तु। ऋग्वेदे अग्नि, सोमादिभ्यः अपि अपेक्षा अस्ति यत् ते श्वात्राः भवन्तु।

शुक्लयजुर्वेदस्य .३४ मन्त्रमस्ति

श्वात्रा स्थ वृत्रतुरो राधोगूर्ता ऽ अमृतस्य पत्नीः ।
ता देवीर् देवत्रेमं यज्ञं नयतोपहूताः सोमस्य पिबत ॥

अस्य महीधरभाष्यम् श्वात्राशब्दस्य नवीनालोकनं करोति। सोमयागे क्रीतसोमस्य यः प्रस्थः भवति, सोमाभिषवणतः प्राक् तस्य अभिसिञ्चनं भवति। होतृचमसे वसतीवरीसंज्ञकपात्रतः जलं गृह्णन्ति एवं तेन अभिसेचनं कुर्वन्ति। अस्य कृत्यस्य संज्ञा निग्राभ्या प्रयोगः अस्ति। शतपथब्राह्मणे ३.९.४.१ निग्राभ्याप्रयोगस्य आख्यानं उपलब्धमस्ति। वसतीवरीपात्रे अपसः ग्रहणं अपसः स्यन्दमानानां धारातः भवति। एतेषां  अपसः प्रकृतिः स्यन्दनस्य अस्ति। ते न केनापि प्रकारेण स्थिरीभवन्ति। यदा ते वसतीवरीपात्रे स्थिराः अभूवन्, तदा तेभ्यः वचनं दत्तमासीत्, यत् सोमाभिषवस्य पूर्वं युष्मेभिः सोमस्य सिंचनं भविष्यति। सिंचनकाले पठितस्य मन्त्रे अपसः एकं विशेषणं श्वात्राः अस्ति। निरुक्तशास्त्रे, सायणभाष्ये श्वात्रशब्दस्य एकैव व्याख्या अस्ति क्षिप्राः, त्वरिताः। किन्तु अपसः आरुणकेतुकचयनं श्वात्रशब्दोपरि नवीनालोकनं ददाति। आरुणकेतुकचयने ब्रह्माण्डतः अपसः संग्रहणं भवति। आपः अर्थात् लौकिककार्येषु ये लघु लघु पुण्याः भवन्ति, तेषां संग्रहः। ते पुण्याः मिलित्वा श्वात्राः भवन्ति। यावत् लोके आकस्मिकता, चांस अस्ति, तावत् श्वा स्थितिः अस्ति। यदा घटनायाः पृष्ठे आच्छादितस्य कारणस्यापि संज्ञानं सकृदेव भवति, तदा श्वात्रस्थित्याः, अश्वस्य स्थित्याः उपलब्धिः भविष्यति। श्वात्र एवं अश्व शब्दयोः मध्ये भेदः अस्ति। एकः अर्कः अस्ति, एकः अश्वमेधः। एकः पितृयानमार्गः अस्ति, अन्यः देवयानमार्गः।

ऋग्वेदे श्वात्रशब्दस्य प्रयोगः अप्सुमात्रे सीमितः नास्ति। अग्निज्वलने यः धूम्रः उदेति, तस्य संज्ञापि श्वात्रः भवितुं शक्यते। धूम्रः अर्थात् घटनायाः आच्छादितज्ञानम्।

व्यावहारिकरूपेण, सर्वाणि भोजनद्रव्याणि श्वात्राः एव सन्ति। कापि जीवनशक्तिरस्ति या अन्नस्य संपादनं करोति। अयं संपादनं पुण्यस्य, धनात्मकतायाः संपादनमेवास्ति।

द्र. श्याव-शबलोपरि टिप्पणी

शुनः उपरि टिप्पणी

 

त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः ।
श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः ॥ऋ १.३१.४

श्वात्रेण क्षिप्रमथनेन सा.भा.

अश्वी रथी सुरूप इद्गोमाँ इदिन्द्र ते सखा ।
श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप ॥८.४.९

श्वात्रभाजा । श्वात्रम्' इति धननाम । आशु अतनीयं शीघ्रं प्राप्तव्यं शोभनं धनं संभजता ईदृग्धनसंयुक्तेन वयसा । अन्ननामैतत् । अन्नेन स सर्वदा सचते समवैति 

श्वा॒त्रम् धननाम, श्वात्रति गतिकर्मा, श्वा॒त्रम् पदनाम

आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः ।
श्वा॒त्रमर्का अनूषतेन्द्र गोत्रस्य दावने ॥८.६३.५

इंद्रे॒ विश्वा॑नि वी॒र्या॑ कृ॒तानि॒ कर्त्वा॑नि च ।

यम॒र्का अ॑ध्व॒रं वि॒दुः ॥८.६३.६

श्वात्रमिति क्षिप्रनाम

अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः ।
श्वितीचयः श्वा॒त्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥१०.४६.७

श्वात्रासः क्षिप्रनाम

अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् ।
स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं॒ सोममाशिरम् ॥१०.४९.१०

श्वात्रम् क्षिप्रनाम

यो होतासीत्प्रथमो देवजुष्टो यं समाञ्जन्नाज्येना वृणानाः ।
स पतत्रीत्वरं स्था जगद्यच्छ्वा॒त्रमग्निरकृणोज्जातवेदाः ॥१०.८८.४

श्वात्रम् क्षिप्रनाम

उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव॒ श्वात्र्या॒ शासुरेथः ।
दूतेव हि ष्ठो यशसा जनेषु माप स्थातं महिषेवावपानात् ॥१०.१०६.२

शु क्षिप्रमतनं श्वात्रम् ।

तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः॒ श्वात्र्या॒ आ ह्वयन्ति ।
इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वाँ इह पाहि सोमम् ॥१०.१६०.२

श्वात्र्याः शु आशु शीघ्रमतन्त्यः प्रवर्तमानाः गिरः 

श्वात्रोसि प्रचेता तां १.४.६

दीक्षितधर्माः--अथ व्रतं व्रतयित्वा नाभिमुपस्पृशते । श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवाः माश ३.२.२.१९

स उपसृजति । श्वात्रा स्थ वृत्रतुर इति शिवा ह्यापस्तस्मादाह श्वात्रा स्थेति वृत्रतुर इति  - माश ३.९.४.१६

अग्निष्टुत् क्रतु-- श्विचीचयः श्वात्रासो भुरण्यवः । वनर्षदो वायवो न सोमाः । तैब्रा २.७.१२.१

श्वात्राः पीता भवत यूयम् आपो ऽअस्माकम् अन्तर् उदरे सुशेवाः ।

ता ऽअस्मभ्यम् अयक्ष्माऽ अनमीवा ऽअनागसः स्वदन्तु देवीर् अमृता ऽ ऋतावृधः ॥ वा.सं. ४.१२

श्वात्राः पीता । जगत्याब्दैवत्यया नाभिमुपस्पृशति । हे आपः, यूयं श्वात्राः । श्वात्रमिति क्षिप्रनाम । क्षिप्रपरिणामाः । प्रीता भवत अस्माकमन्तर्मध्ये । पुनर्विशिनष्टि  उदरे सुशेवाः । - उवट भाष्यम्

श्वात्रो ऽसि प्रचेताः ।
तुथो ऽसि विश्ववेदाः ॥ - वा.सं. ५.३१

प्रशास्तुः । श्वात्रः शु क्षिप्रमततीति श्वात्रः । प्रचेताः प्रकृष्टज्ञानः ।

श्वात्रा स्थ वृत्रतुरो राधोगूर्ता ऽ अमृतस्य पत्नीः ।
ता देवीर् देवत्रेमं यज्ञं नयतोपहूताः सोमस्य पिबत ॥ वा.सं. ६.३४

श्वात्रा स्थेत्यासिञ्चति निग्राभ्या इति' ( का० ९ । ४ १२) । सोमस्योपरि होतृचमसेनैव निग्राभ्या आसिञ्चतीति सूत्रार्थः । - महीधरभाष्यम्

 अभिषोतव्यस्य सोमस्य सेवनीया आपो निग्राभ्या उच्यन्ते तासु गृह्यमाणासु वाचयेत् यजमानश्च स्वोरसि निग्राभ्या निगृह्यालभ्य च मन्त्रं वक्तीति सूत्रार्थः । हे आपः, यूयं निग्राभ्या निग्राह्या अस्माभिर्नितरां ग्रहीतव्याः स्थ भवथ ।

निग्राभ्या -- अध्वर्युः होतृचमसे वसतीवरीः कृत्वा यजमानाय प्रयच्छति। (श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोषः - पं. पीताम्बरदत्त शास्त्री)

अस्याजरासो दमाम् अरित्रा ऽ अर्चद्धूमासो ऽ अग्नयः पावकाः ।
श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥ वा.सं. ३३.१