पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Shamku - Shtheevana)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

 

Shamku -  Shankushiraa  ( words like Shakata/chariot, Shakuna/omens, Shakuni, Shakuntalaa, Shakti/power, Shakra, Shankara, Shanku, Shankukarna etc. )

Shankha - Shataakshi (Shankha, Shankhachooda, Shachi, Shanda, Shatadhanvaa, Shatarudriya etc.)

Shataananda - Shami (Shataananda, Shataaneeka, Shatru / enemy, Shatrughna, Shani / Saturn, Shantanu, Shabara, Shabari, Shama, Shami etc.)

Shameeka - Shareera ( Shameeka, Shambara, Shambhu, Shayana / sleeping, Shara, Sharada / winter, Sharabha, Shareera / body etc.)

Sharkaraa - Shaaka   (Sharkaraa / sugar, Sharmishthaa, Sharyaati, Shalya, Shava, Shasha, Shaaka etc.)

Shaakataayana - Shaalagraama (Shaakambhari, Shaakalya, Shaandili, Shaandilya, Shaanti / peace, Shaaradaa, Shaardoola, Shaalagraama etc.)

Shaalaa - Shilaa  (Shaalaa, Shaaligraama, Shaalmali, Shaalva, Shikhandi, Shipraa, Shibi, Shilaa / rock etc)sciple, Sheela, Shuka / parrot etc.)

Shilaada - Shiva  ( Shilpa, Shiva etc. )

Shivagana - Shuka (  Shivaraatri, Shivasharmaa, Shivaa, Shishupaala, Shishumaara, Shishya/de

Shukee - Shunahsakha  (  Shukra/venus, Shukla, Shuchi, Shuddhi, Shunah / dog, Shunahshepa etc.)

Shubha - Shrigaala ( Shubha / holy, Shumbha, Shuukara, Shoodra / Shuudra, Shuunya / Shoonya, Shoora, Shoorasena, Shuurpa, Shuurpanakhaa, Shuula, Shrigaala / jackal etc. )

Shrinkhali - Shmashaana ( Shringa / horn, Shringaar, Shringi, Shesha, Shaibyaa, Shaila / mountain, Shona, Shobhaa / beauty, Shaucha, Shmashaana etc. )

Shmashru - Shraanta  (Shyaamalaa, Shyena / hawk, Shraddhaa, Shravana, Shraaddha etc. )

Shraavana - Shrutaayudha  (Shraavana, Shree, Shreedaamaa, Shreedhara, Shreenivaasa, Shreemati, Shrutadeva etc.)

Shrutaartha - Shadaja (Shruti, Shwaana / dog, Shweta / white, Shwetadweepa etc.)

Shadaanana - Shtheevana (Shadaanana, Shadgarbha, Shashthi, Shodasha, Shodashi etc.)

 

 

शुल्ब

संस्कृत-वोर्टरबुक(बोथलिंक व रोथ), वाचस्पत्यम्, शब्दकल्पद्रुम, आप्टे कृत संस्कृत कोशः, श्रौतपदार्थनिर्वचन इत्यादि ये ग्रन्थाः सन्ति, तेषु शुल्बशब्दस्य सम्यक् परिभाषा अथवा व्याख्या न उपलभ्यते।  तैत्तिरीयसंहितायां ७.४.५.४ एवं ७.५.४.२ उल्लेखमस्ति यत् उदङ्कः शौल्बायनः दशरात्रसंज्ञकस्य सत्रस्य ऋद्धिं जानाति। सत्रस्य ऋद्धिः सामविशेषस्य संज्ञा अस्ति, अस्य गानं गवामयनादि सत्रेषु प्रातःकाले नित्यप्रति भवति। साम्नि पृथिवीतः अन्तरिक्षं प्रति, अन्तरिक्षतः दिवं प्रति आरोहणस्य उल्लेखमस्ति। सामगानं एव पर्याप्तं नास्ति, अपितु दशरात्रस्य कृत्येषु तस्य क्रियान्वनं महत्त्वपूर्णमस्ति। तैत्तिरीयसंहितायां शौल्बायनः उदङ्कस्य विशेषणमस्ति। अयं प्रतीयते यत् उदङ्कस्य साम्यं पुराणेषु उत्तंकऋषिणा सह अस्ति। उत्तंकऋषिः ऊर्ध्व-अधोमुखी साधनां जानाति, किन्तु यः तपसः पार्श्वभागः, आनन्दात्मकः स्थितिः अस्ति, तस्योपरि तस्य अधिकारः नास्ति। पार्श्वचिह्नानां परिहाराय, धुन्धुअसुरस्य वधाय सः कुवलयाश्वस्य साहाय्यं गृह्णाति। कुवलय अर्थात् पृथिव्याः तिर्यक् रूपेण चंक्रमणम्।  वैदिकवाङ्मये सोमयागे यः यूपस्य निर्माणाय परशुना वनस्पतीनां तक्षणं अस्ति, तत् सर्वं ऊर्ध्वाधोमुखी साधनायाः प्रतीकः अस्ति। सोमयागस्य प्रथमकृत्यः प्रवर्ग्य – उपसद संज्ञकाः इष्टयः सन्ति। उपसद इष्ट्यन्तरं अग्निचितिकृत्यं भवति। अथर्ववेदे ९.१२.६ कथनमस्ति - देवानां पत्नीः पृष्टय उपसदः पर्शवः । अपि च, अथर्ववेदे १२.३.३१ कथनमस्ति - प्र यच्छ पर्शुं त्वरया हरौषमहिंसन्त ओषधीर्दान्तु पर्वन् । यः पर्शुः अस्ति, तत् औषं, ऊष्मणः भागं कर्तयित्वा ओषधस्य शोधनं करोति। शौल्बायनः एषु कृत्येषु प्रवीणः अस्ति। किन्तु शतपथब्राह्मणे ११.४.२.२० शौल्बायनः अयःस्थूणसंज्ञकस्य यजमानस्य यागं संपादयति, यस्मिन् सः निष्फलं भवति। संभवतः अयःस्थूणस्य यः दौर्बल्यं अस्ति, तस्य अपनयने सः सफलं नास्ति। अयःस्थूणः अस्य विकल्पं प्रस्तौति – हृदयस्थितेभ्यः येन पर्शुभ्यः छेदनास्त्रस्य परशोः निर्माणं भवति, तस्य आवश्यकता नास्ति। अपितु हृदयस्य प्रेमशक्त्याः यः क्षयं अन्येषु शक्तीषु भवति, तस्य रूपान्तरणस्य आवश्यकता अस्ति। कर्मकाण्डे अस्य रूपं अयमस्ति यत् उपभृत् संज्ञकपात्रतः जुहूसंज्ञके पात्रे आज्यं गृहीत्वा तेन देवेभ्यः आहुतिं प्रदीयते। हृदयस्य परितः यौ बाहू स्तः, तौ हृदयस्य प्रेमशक्त्याः क्षरणस्य माध्यमौ स्तः। एकः उपायः बाह्वोः छेदनं अस्ति, यथा परशुरामेण (सहस्रबाह्वोः छेदनं) कृता आसीत्। अन्य उपायः बाह्वोः सम्यक् उपयोगं अस्ति।

शतपथब्राह्मणे १४.६.१०.३ शौल्बायनः प्राणो वै ब्रह्म, प्राणो वै प्रियम्, एतयोः सूत्रयोः साधनं करोति। संभवतः यत्र व्यवस्था अस्ति, चितिः अस्ति, तत्रैव प्राणाः वसन्ति।

भारद्वाजश्रौतसूत्रतः १.३ अयं प्रतीयते यत् बर्हिषां/शुल्बानां वेष्टनेन रशनानिर्माणं(अदित्यै रास्नासि इति) शुल्बकृत्यमस्ति। उणादिसूत्रभोजवृत्ति २.२.२२१ अनुसारेण – अलशलोरत उच्च। अर्थात् अकारस्य ओकारादेशो भवति। एवंप्रकारेण शलधातुतः शुल्व शब्दः सृज्यते। काशकृत्स्नधातुपाठ १.४९४ अनुसारेण शल धातु चलने, कम्पने अर्थे अस्ति। यः कम्पनस्य स्थाने स्थैर्यं जनयति, तत् शुल्वं भवितुं शक्यते। लोके शुल्बस्य तात्पर्यं मापने, अपरिमितस्य मितरूपसृजने गृह्यते। संभवतः यः अपरिमितः अस्ति, तत् चितः नास्ति। यदा तत् चितः भवति, तदैव मितः भवति।  वास्तुसूत्रोपनिषदानुसारेण ४.९  - शुल्वं यज्ञस्य साधनं शिल्पं रूपस्य साधनम् ॥  शिल्पे अपरिमिताकारस्य प्रतिरूपं सृज्यन्ते।

संदर्भाः

सावित्रेणाश्वपर्शुमनडुत्पर्शुमसिदं वादाय गार्हपत्यमभिमन्त्रयते यज्ञस्य घोषदसि इति ५ प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इत्याहवनीये दात्रं प्रतितपति ६ प्रेयमगाद्धिषणा बर्हिरच्छ इति प्राङ् वोदङ् वाभिप्रव्रज्य यतः कुतश्च दर्भमयं बर्हिराहरति ७ विष्णो स्तूपोऽसि इति प्रथमँ स्तम्बमुत्सृजति ८ द्वितीयं परिषौति देवानां परिषूतमसि वर्षवृद्धमसि इति ९ तस्य द्वे तिस्रो वा नाडीरुत्सृजति अवशिष्टो गवां भागः इति १० स्तम्बमारभते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभे इति ११ पर्वणि दाति देवबर्हिर्मा त्वान्वङ् मा तिर्यक् पर्व ते राध्यासमाछेत्ता ते मा रिषम् इति १२ – भा.श्रौ.सू. १.३

एता ह वा उदङ्कः शौल्बायनः सत्त्रस्यर्द्धिम् उवाच यद् दशरात्रः । यद् दशरात्रो भवति सत्त्रस्यर्द्ध्यै । अथो यद् एव पूर्वेष्व् अहःसु विलोम क्रियते तस्यैवैषा शान्तिः ।- तैसं. ७.४.५.४

एता ह वा उदङ्कः शौल्बायनः सत्त्रस्यर्द्धिम् उवाच यद् दशरात्रः । यद् दशरात्रो भवति सत्त्रस्यर्द्ध्यै । अथो यद् एव पूर्वेष्व् अहःसु विलोम क्रियते तस्यैवैषा शान्तिः ॥ तैसं. ७.५.४.२

ऽयस्थूणगृहपतीनां ह वै शौल्बायनोऽध्वर्युरास स होवाच। इदमहेदं सत्त्रं कृशपश्वल्पाज्यमथायं गृहपतिरस्मीति मन्यत इति स होवाच। अध्वर्यवा वै नोऽक्रुक्ष एते वै ते स्रुचौ ये त्वं संवत्सरं नाशक आदातुं यद्वै त्वाहमेतयोरनुशिष्यां प्र प्रजया पशुभिर्जायेथा अभि स्वर्गं लोकं वहेरिति स होवाच। उप त्वायानीति स होवाचात्र वाव खल्वर्हसि यो नः संवत्सरेऽध्वर्युरभूरनुपेतायैव त एनद्ब्रवाणीति तस्मा उ हैतदेव स्रुचोरादानमुवाच यदेतद्व्याख्याम तस्मादेवंविदमेवाध्वर्युं कुर्वीत नानेवंविदम् माश ११.४.२.२०

अब्रवीन्म उदङ्कः शौल्बायनः। प्राणो वै ब्रह्मेति[१] यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेत्यप्राणतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य। प्राण एवायतनमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण एव सम्राडिति होवाच  - माश १४.६.१०.३

शुल्वं यज्ञस्य साधनं शिल्पं रूपस्य साधनम् ॥  शिल्पे अपरिमिताकारस्य प्रतिरूपं सृज्यन्ते। - वास्तुसूत्रोपनिषत् ४.९

एतद् बर्हिःसंनहनं नाम शुल्बनामकम्  एवमिध्मबन्धनार्थं इध्मसंनहनं नाम शुल्बनामकम् । - श्रौतपदार्थनिर्वचनम् पृ. १३