पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (Shamku - Shtheevana) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
शुक्र टिप्पणी श्रौतयज्ञप्रक्रिया-पदार्थानुक्रमकोषे कथनमस्ति यत् सोमयागे यदा दशापवित्रेण सोमस्य सवनं भवति, तदा केचन ग्रहाणां पूरणं सोमधारातः भवति। एतेषां ग्रहाणां पूरणकाले यः अवशिष्टः सोमः अधोस्थिते द्रोणकलशे एकत्रितः भवति, अथवा यः सोमः बिन्दुरूपेण द्रोणकलशे पतति, तस्य संज्ञा शुक्रः अस्ति। अन्यानां ग्रहाणां पूरणं द्रोणकलशे यः अतिरिक्तः सोमः उपलब्धं अस्ति, तेनैव भवति। अयं संकेतमस्ति यत् शुक्रस्य प्रकृतिः धाराप्रवाहस्य नास्ति, अपितु बिन्दुरूपा अस्ति। अन्यशब्देषु, शुक्रसंज्ञकस्य सोमस्य प्रकृतिः अश्वप्रकारा नास्ति, अपितु अक्षप्रकारा अस्ति। किन्तु अयं कथनं ऋग्वेदस्य कथनस्य विपरीते भवति – शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने॥ १.०८४.०४ अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया। वाजं गोमन्तमक्षरन्॥ ९.०३३.०२ एते धामान्यार्या शुक्रा ऋतस्य धारया। वाजं गोमन्तमक्षरन्॥ ९.०६३.१४
ऋग्वेदे शुक्र-शोचि शब्दयोः सहउल्लेखं सार्वत्रिकरूपेण विद्यते ( उदाहरणार्थं १.०१२.१२, ३.००१.०५, ४.००१.०७, ४.०५१.०९, ४.०५२.०७, ५.००६.०५, ६.००६.०४, ६.०४८.०७, ७.०१४.०१, ७.०१५.१०, ८.०२३.२०, ८.०२३.२३, ८.०४४.०९, ८.०४४.१४, ८.०५२.१०, ८.०५६.०५, ८.१०३.०८, ९.०८५.१२, १०.०२१.०८, १०.१२३.०८)। किन्तु पुराणेषु शुक्रस्य शुचिना सह सम्बन्धं केवलं शुक्र-शुचि (ज्येष्ठ-आषाढ) मासरूपेणैव विद्यते। पुराणेषु अयं सम्बन्धः परोक्षरूपेण शक्र-शचि रूपेण विद्यते (शचीरुपरि टिप्पणी पठनीयः)। काशकृत्स्नधातुव्याख्याने शच धातुः व्यक्तायां वाचि अर्थे अस्ति। ऋग्वेद १.३०.१५ में इन्द्र द्वारा शचियों द्वारा अक्ष को चलायमान बनाने का उल्लेख है – आ घ त्वावान् त्मनाप्तः स्तोतृभ्यो धृष्णवियानः । ऋणोरक्षं न चक्र्योः ।। आ यद् दुवः शतक्रतवा कामं जरितॄणाम् । ऋणोरक्षं न शचीभिः ।। एकः ऊर्जायाः स्रोतः, भण्डारः अस्ति। अन्यः तस्याः ऊर्जायाः व्यवहारे केन रूपेण नियोजनं कर्तव्यं अस्ति, अस्य तन्त्रः अस्ति। पुराणेषु शची पुलोमा दैत्यस्य पुत्री अस्ति। पुलोमा अर्थात् पुलकितलोमा। लोके साधारणा स्थितिरयं अस्ति यत् यः यस्य व्यवसायः अस्ति, तत् लोके निकृष्टतमः अस्ति। किन्तु यदा तत् व्यवसायः पुलकितलोमा भवति, तदा तस्य दोहनः संभवं भवति। केन प्रकारेण, यथा चक्रः रथाक्षं दोहयति। वेदे शुक्ररूपस्य सूर्यस्य दोहनतन्त्रं मन्थीग्रहः अस्ति, अयं प्रतीयते- आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना। गोभिः श्रीणीत मत्सरम्॥ ९.०४६.०४
संदर्भाः अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः। इमं स्तोमं जुषस्व नः॥ १.०१२.१२ यः शुक्र इव सूर्यो हिरण्यमिव रोचते। श्रेष्ठो देवानां वसुः॥ १.०४३.०५ महिकेरव ऊतये प्रियमेधा अहूषत। राजन्तमध्वराणामग्निं शुक्रेण शोचिषा॥ १.०४५.०४ ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि। सा नः स्तोमाँ अभि गृणीहि राधसोषः शुक्रेण शोचिषा॥ १.०४८.१४ शुक्रः शुशुक्वाँ उषो न जारः पप्रा समीची दिवो न ज्योतिः॥ १.०६९.०१ इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम्। शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने॥ १.०८४.०४ एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः। विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छ॥ १.११३.०७ जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची। ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती॥ १.१२३.०९ यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः। परिज्मानमिव द्यां होतारं चर्षणीनाम्। शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः॥ १.१२७.०२ तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि। त्वां त्सारी दसमानो भगमीट्टे तक्ववीये। त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा॥ १.१३४.०५ तुभ्यायं सोमः परिपूतो अद्रिभिः स्पार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति। तवायं भाग आयुषु सोमो देवेषु हूयते। वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः॥ १.१३५.०२ शुक्रा निर्मलानि दीप्तानि वा तेजांसि “वसानः सोमः - साभा आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये। तवायं भाग ऋत्वियः सरश्मिः सूर्ये सचा। अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत॥ १.१३५.०३ इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत। एते वामभ्यसृक्षत तिरः पवित्रमाशवः। युवायवोऽति रोमाण्यव्यया सोमासो अत्यव्यया॥ १.१३५.०६ किंच त एव सोमाः “शुक्राः शुभ्रा दीप्ताः "अयंसत नियता भवन्ति । - साभा सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे। आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः। इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः॥ १.१३७.०१ वेदिषदे प्रियधामाय सुद्युते धासिमिव प्र भरा योनिमग्नये। वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम्॥ १.१४०.०१ तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योररतिं न्येरिरे। रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं न क्षितिषु प्रशंस्यम्॥ २.००२.०३ दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि। प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो वि दिद्युतः॥ २.००२.०७ अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः। त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता॥ २.००९.०४ स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः। ईशानादस्य भुवनस्य भूरेर्न वा उ योषद्रुद्रादसुर्यम्॥ २.०३३.०९ द्यावो न स्तृभिश्चितयन्त खादिनो व्यभ्रिया न द्युतयन्त वृष्टयः। रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि॥ २.०३४.०२ तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः। स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु॥ २.०३५.०४ अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन। अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः॥ दे. त्वष्टा शुक्रश्च २.०३६.०३ नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते। गन्तासि सुन्वतो गृहम्॥ २.०४१.०२ शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः। आ यातं पिबतं नरा॥ २.०४१.०३ शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः। शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः॥ ३.००१.०५ बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि। श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन॥ ३.००१.०८ द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय। यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः॥ ३.००६.०३ हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः। उन्नीयमानाः कविभिः पुरस्ताद्देवा देवानामपि यन्ति पाथः॥ ३.००८.०९ त्रिरस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्यग्नेः। अनन्ते अन्तः परिवीत आगाच्छुचिः शुक्रो अर्यो रोरुचानः॥ ४.००१.०७ “शुचिः सर्वस्य शेाधकः “शुक्रः दीप्तियुक्तोऽत एव “रोरुचानः भृशं दीप्यमानः-साभा. वि षाह्यग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः। विश्वेभिर्यद्वावनः शुक्र देवैस्तन्नो रास्व सुमहो भूरि मन्म॥ ४.०११.०२ अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमन्धः। अध्वर्युभिः प्रयतं मध्वो अग्रमिन्द्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै॥ ४.०२७.०५ वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु। आ याहि सोमपीतये स्पार्हो देव नियुत्वता॥ ४.०४७.०१ ता इन्न्वेव समना समानीरमीतवर्णा उषसश्चरन्ति। गूहन्तीरभ्वमसितं रुशद्भिः शुक्रास्तनूभिः शुचयो रुचानाः॥ ४.०५१.०९ आ द्यां तनोषि रश्मिभिरान्तरिक्षमुरु प्रियम्। उषः शुक्रेण शोचिषा॥ ४.०५२.०७ आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस्पते। सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भर॥ ५.००६.०५ देवं वो देवयज्ययाग्निमीळीत मर्त्यः। समिद्धः शुक्र दीदिह्यृतस्य योनिमासदः ससस्य योनिमासदः॥ ५.०२१.०४ स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे। अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि॥ ५.०२३.०४ अध्वर्यवश्चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम्। होतेव नः प्रथमः पाह्यस्य देव मध्वो ररिमा ते मदाय॥ ५.०४३.०३ दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता। मध्वो रसं सुगभस्तिर्गिरिष्ठां चनिश्चदद्दुदुहे शुक्रमंशुः॥ ५.०४३.०४ मातुष्पदे परमे शुक्र आयोर्विपन्यवो रास्पिरासो अग्मन्। सुशेव्यं नमसा रातहव्याः शिशुं मृजन्त्यायवो न वासे॥ ५.०४३.१४ द्यावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः। वि य इनोत्यजरः पावकोऽश्नस्य चिच्छिश्नथत्पूर्व्याणि॥ ६.००४.०३ ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः। अध भ्रमस्त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः॥ ६.००६.०४ अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया। समिद्धः शुक्र आहुतः॥ ६.०१६.३४ तमा नूनं वृजनमन्यथा चिच्छूरो यच्छक्र वि दुरो गृणीषे। मा निररं शुक्रदुघस्य धेनोराङ्गिरसान्ब्रह्मणा विप्र जिन्व॥ ६.०३५.०५ अयं विदच्चित्रदृशीकमर्णः शुक्रसद्मनामुषसामनीके। अयं महान्महता स्कम्भनेनोद्द्यामस्तभ्नाद्वृषभो मरुत्वान्॥ ६.०४७.०५ बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा। भरद्वाजे समिधानो यविष्ठ्य रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि॥ ६.०४८.०७ आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक। उतो न एभिः स्तवथैरिह स्याः॥ ७.००१.०८ प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम्। यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति॥ ७.००४.०१ समिधा जातवेदसे देवाय देवहूतिभिः। हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये॥ ७.०१४.०१ अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः। शुचिः पावक ईड्यः॥ ७.०१५.१० एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि। अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः॥ ७.०६४.०५ एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि। अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः॥ ७.०६५.०५ तच्चक्षुर्देवहितं शुक्रमुच्चरत्। पश्येम शरदः शतं जीवेम शरदः शतम्॥ ७.०६६.१६ विश्वं प्रतीची सप्रथा उदस्थाद्रुशद्वासो बिभ्रती शुक्रमश्वैत्। हिरण्यवर्णा सुदृशीकसंदृग्गवां माता नेत्र्यह्नामरोचि॥ ७.०७७.०२ न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम्। अपस्पृण्वते सुहार्दम्॥ ८.००२.०५ इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः। शुक्रा आशिरं याचन्ते॥ ८.००२.१० तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम्। विशामग्निमजरं प्रत्नमीड्यम्॥ ८.०२३.२० आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यश्ववत्। मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे॥ ८.०२३.२३ उदु ष्य शरणे दिवो ज्योतिरयंस्त सूर्यः। अग्निर्न शुक्रः समिधान आहुतः॥ ८.०२५.१९ उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः। अग्ने शुक्रास ईरते॥ ८.०४४.०४ समिधान उ सन्त्य शुक्रशोच इहा वह। चिकित्वान्दैव्यं जनम्॥ ८.०४४.०९ स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा। देवैरा सत्सि बर्हिषि॥ ८.०४४.१४ यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम्। एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः॥ ८.०४६.२६ समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम्। सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः॥ ८.०५२.१० अचेत्यग्निश्चिकितुर्हव्यवाट् स सुमद्रथः। अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत॥ ८.०५६.०५ अग्ने कविर्वेधा असि होता पावक यक्ष्यः। मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः॥ ८.०६०.०३ आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः। पिबा त्वस्यान्धस इन्द्र विश्वासु ते हितम्॥ ८.०९५.०२ आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः। अन्तः पवित्र उपरि श्रीणानोऽयं शुक्रो अयामि ते॥ ८.१०१.०९ प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे। उपस्तुतासो अग्नये॥ ८.१०३.०८ अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया। वाजं गोमन्तमक्षरन्॥ ९.०३३.०२ आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना। गोभिः श्रीणीत मत्सरम्॥ ९.०४६.०४ प्र ते दिवो न वृष्टयो धारा यन्त्यसश्चतः। अभि शुक्रामुपस्तिरम्॥ ९.०६२.२८ एते धामान्यार्या शुक्रा ऋतस्य धारया। वाजं गोमन्तमक्षरन्॥ ९.०६३.१४ पवमाना असृक्षत सोमाः शुक्रास इन्दवः। अभि विश्वानि काव्या॥ ९.०६३.२५ असृक्षत प्र वाजिनो गव्या सोमासो अश्वया। शुक्रासो वीरयाशवः॥ ९.०६४.०४ दविद्युतत्या रुचा परिष्टोभन्त्या कृपा। सोमाः शुक्रा गवाशिरः॥ ९.०६४.२८ प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः। श्रीणाना अप्सु मृञ्जत॥ ९.०६५.२६ तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते। पवित्रं सोम धामभिः॥ ९.०६६.०५ ते सुतासो मदिन्तमाः शुक्रा वायुमसृक्षत॥ ९.०६७.१८ ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य। भानुः शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसी मातरा शुचिः॥ ९.०८५.१२ अरश्मानो येऽरथा अयुक्ता अत्यासो न ससृजानास आजौ। एते शुक्रासो धन्वन्ति सोमा देवासस्ताँ उप याता पिबध्यै॥ ९.०९७.२० कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम। स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम्॥ ९.०९७.३२ क्रत्वा शुक्रेभिरक्षभिर्ऋणोरप व्रजं दिवः। हिन्वन्नृतस्य दीधितिं प्राध्वरे॥ ९.१०२.०८ एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः॥ ९.१०९.०३ शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै॥ ९.१०९.०५ दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व॥ ९.१०९.०६ अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत्। अभिक्रन्दन्वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे॥ १०.०२१.०८ मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः। शुक्रावनड्वाहावास्तां यदयात्सूर्या गृहम्॥ १०.०८५.१० शुक्रौ दीप्तौ सूर्याचन्द्रमसौ – साभा. तमेव ऋषिं तमु ब्रह्माणमाहुर्यज्ञन्यं सामगामुक्थशासम्। स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध॥ १०.१०७.०६ आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ। दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने॥ १०.११०.०६ द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन्। भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि॥ १०.१२३.०८ पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना। पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे॥ १०.१४०.०२ यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा। स नः पर्षदति द्विषः॥ १०.१८७.०३ यो अस्य पारे रजसः शुक्रो अग्निरजायत। स नः पर्षदति द्विषः॥ १०.१८७.०५
शुक १. यामं शुकं हरितमालभेत । गो २,२,१। २. शुकान् पित्तेन (प्रीणामि )। तैसं ५, ७, २३, १; काठ ५२, १३ । ३. स ( शुकः) उ वयसामन्नादतमः। ऐआ १, २, ४ । । ४. सरस्वते शुकः (+ श्येतः ।तैसं.]; श्वेतः [काठ.] ) पुरुषवाक् । तैसं ५, ५,१२,१; मै ३,१४,१४; काठ ७, २ । शुक्त- वायु- ९३ द्र.। शुक्र— १. अत्ता वै शुक्रः ( ग्रहः )। माश ५, ४, ४, २० । २. अस्य ( अग्नेः ) एवैतानि (घर्मः, अर्कः, शुक्रः, ज्योतिः, सूर्यः ) नामानि । माश ९, ४,२,२५ । ३. एतौ ( शुक्रश्च शुचिश्च ) एव ग्रैष्मौ (मासौ ) स यदेतयोर्बलिष्ठं तपति तेनो हैतौ शुक्रश्च शुचिश्च । माश ४, ३, १, १५ । ४. तद्वाऽ एष एव शुक्रो य एष (आदित्यः) तपति तद्यदेष तपति तेनैष शुक्रः । माश ४, २, १, १। ५. द्वितीये (षष्ठे ।तैसं ७, २, ८, ३]) ऽहञ्छुक्रो गृह्यते । तैसं ७, २, ८, १। ६. बृहद्रथन्तरयोस्त्वा स्तोमेन त्रिष्टुभो वर्तन्या शुक्रस्य वीर्येण । तैसं २, ३, १०, २॥ ७. यजमानदेवत्यो वै शुक्रः । काठ २७, ८ । ८. यत् सप्तमेऽहन्छुक्रो गृह्यते स्व एवैनमायतने गृह्णाति । तैसं ७, २,८, ४ । ९. शुक्रꣳ हिरण्यम् । तै १, ७, ६, ३।। १०. शुक्रꣳ ह्येतच्छुक्रेण क्रीणाति यत्सोमꣳ हिरण्येन । माश ३, ३, ३, ६ । ११. शुक्रः (निर्म्मलः) सोमः । तां ६, ६, ९; माश ३, ३, ३, ६ । १२. शुक्रो देवेषु रोचते । मै २, ७, ५। १३. सत्यं वै शुक्रम् । माश ३,९,३,२५ ॥ शुक्रा ह्यापः – तैब्रा १.७.६.३ तेजोऽसि शुक्रमस्यमृतमसि (आज्य) – माश १.३.१.२८ असा आदित्यः शुक्रश्चन्द्रमा मन्थी – मै ४.६.३ असौ वा आदित्यः शुक्रः – तैसं ७.३.७.३, मै ४.६.८, ४.८.८, क ४४.२, ४५.१, ४६.६, तां १५.५.९, माश ९.४.२.२१ असौ वा आदित्यः शुक्रः चन्द्रमा मन्थी – काठ २७.८ एष वै शुक्रो य एष (आदित्यः तपति – माश ४.३.१.२६, ४.३.३.१७ ज्योतिः शुक्रमसौ (आदित्यः) – ऐ ७.१२ तत्र ह्यादित्यः शुक्रश्चरति – गो १.२.९ शुक्रं हिरण्यम् – ऐ ७.१२ तेजो वै शुक्रो ब्रह्मवर्चसम् – मै ४.६.३, ४.८.९ त्रिष्टुप् शुक्रः (ग्रहः) – मै ४.८.८ त्रैष्टुभः शुक्रः- काठ ३०.२, क ४६.५, त्रैष्टुभो वै शुक्रः – तैसं ७.२.८.१, मै ४.८.१० सूर्यो देवता बृहती छन्दः शुक्रस्य पात्रमसि – तैसं ३.१.६.२-३ अत्तैव शुक्र आद्यो मन्थी – माश ४.२.१.३ (तु. माश ५.४.४.२१) शुक्रं वा अन्वत्रीः प्रजाः प्रजायन्ते, मन्थिनमाद्याः। - काठ २७.८ यज्ञो वै शुक्रः – कौ २.४८२, जै १.९३, १.९४ चक्षुर्वै शुक्रः – मै ४.६.५, तैब्रा ३.३.५.२ शुक्रपा- प्रजा- ३१ द्र. ।
शुक्र-पात्र १. शुक्रपात्रमेवानु मनुष्या जायन्ते । माश ४, ५, ५, ७ । २. शुक्रपात्रं प्रयुज्यते ऽत्रीरेव तत् प्रजा अनुप्रजायन्ते । काठ २८, १०; क ४५, १ । अथैतच् शुक्रपात्रं पुनः प्रयुज्यते, पुरुषꣳ वा एतत् प्रति। - मै ४.८.८ वैश्वदेवꣳ शुक्रपात्रेण गृह्णाति। वैश्वदेव्यो वै प्रजाः । असाव् आदित्यः शुक्रः । यद् वैश्वदेवꣳ शुक्रपात्रेण गृह्णाति तस्माद् असाव् आदित्यः सर्वाः प्रजाः प्रत्यङ्ङ् उद् एति- तैसं ६.५.४.१ शुक्र-यजुस्- तेषां (शुक्रियाणां साम्नां ) यो रसोऽत्यक्षरत् । तानि शुक्रयजूꣳष्यभवन् । तैआ ५,१०, १।
शुक्रामन्थिन् १. एतावान् वै यज्ञो यावच्छुक्रामन्थिनौ । काठ २७, ७ । २. चक्षुषी वा एते यज्ञस्य यच्छुक्रामन्थिनौ । काठ २७, ७ । ३. ग्रहान् वा अनु प्रजाः पशवः प्र जायन्ते । उपाꣳश्वन्तर्यामाव् अजावयः शुक्रामन्थिनौ पुरुषाः । ऋतुग्रहान् एकशफाः । आदित्यग्रहं गावः ।तैसं ६, ५, १०, १ । ४. शुक्रामन्थिनौ वा अनु प्रजाः प्रजायन्ते । तैसं ६, ४,१०,४ ॥ ऐन्द्रेण शुक्रामन्थिनौ (गृह्येते) – मै ४.६.१ चक्षुषी ते शुक्रामन्थिनौ पाताम् – मै ४.९.७ चक्षुषी शुक्रामन्थिनौ – मै ४.५.९ चक्षुषी ह वा ऽस्य शुक्रामन्थिनौ – माश ४.२.१.१ प्रजापतेर्वा एते चक्षुषी यच् शुक्रामन्थिनौ – मै ४.६.३ यजमानदेवत्यो वै शुक्रो भ्रातृव्यदेवत्यो मन्थी हिरण्येन शुक्रँ श्रीणाति तेजो वै हिरण्यं तेजसैव यजमानँ समर्धयति तस्मादन्यतरच्चक्षुषोस्तेजस्वितरं तस्मादहरेकरूपँ सक्तुभिर्मन्थिनँ श्रीणाति तेज एव भ्रातृव्यस्य विनयति – काठ. २७.८ तुथोऽसि जनधाया देवास्त्वा शुक्रपाः प्रणयन्तु तुथोऽसि जनधाया देवास्त्वा मन्थिपाः प्रणयन्त्विति – काठ २७.८ एतावान् वै यज्ञो यावच्छुक्रामन्थिना एतावती पृथिवी यावत्युत्तरवेदिरनृतँ शण्डामर्का अनृतं भ्रातृव्यो – काठ २७.७ पात्रावकाशमन्त्राः--शुक्रामन्थिनौ चक्षुर्भ्यां मे वर्चोदसौ वर्चसे पवेथाम् – माश ४.५.६.२ यन्निष्केवल्यं तेन शुक्रमन्थिना उक्थवन्तौ – काठ २८.१०, क ४५.१ शुक्रपात्रं प्रयुज्यतेऽत्रीरेव तत्प्रजा अनुप्रजायन्ते मन्थिपात्रं प्रयुज्यत आद्या एव तत् प्रजा अनुप्रजायन्ते - काठ २८.१० असौ वा आदित्यः शुक्रश्चन्द्रमा मन्थी – तैसं ६.४.१०.२
शुक्रिय- प्रजापतिं वै देवाः शुक्रं पयोऽदुह्रन् । तदेभ्यो न व्यभवत् । तदग्निर्व्यकरोत् । तानि शुक्रियाणि सामान्यभवन् । तैआ ५, १०, १ ॥ [य- असुर्य- ३; पशु- १८७ द्र.] । शुक्ल (वर्ण.)- १. तद्यच्छुक्लं तद्वाचो रूपमृचोऽग्नेर्मृत्योः । जैउ १, ८, १, ८ । २. शुक्लꣳ साम । काठ २३, ३ ॥ [क्ल- अहन्- १८, २५, ३६; आदित्य- ३००; ३१९; केश- २; यव- २४ द्र.] । शुच्- अग्नि- ७०७; घर्म- १४ द्र.।
शुक्र- सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे तद्विकृतिषु च एकाहाहीनसत्रेषु १. प्रयुज्यमानो ग्रहविशेषः शुक्र उच्यते । स च प्रातःसवनमाध्यन्दिनसवनयोर्गृह्यते । द्र० ग्रहग्रहण- । २. द्रोणकलशस्थ: सोमश्चापि शुक्रोऽभिधीयते। यत: अध्वर्युणा ग्रहेषु गृह्यमाणेषु अन्तरा अन्तरा यो रसो द्रोणकलशे पतति सोऽपि शुक्रसंज्ञको भवति । (तु० का० श्रौ० ९।५।१७; ६।११ विद्याधरः) । शुक्रग्रहपात्र- (आध्व०) सोमयज्ञेषु प्रकृतिभूत ज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु बैल्वं पात्रं शुक्रग्रहपात्रमुच्यते । द्र० शुक्र— श्रौ०प०नि० पृ० २४९ । शुक्रज्योतिस्- (सा०) अत्यन्तभास्वर: प्रकाश: शुक्रं ज्योतिरुच्यते। शुक्रपात्रे रसग्रहण – (आध्व०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु प्रात: स० मा० सवनयो: शुक्रपात्रेण गृह्णाति-–'अयं वेनश्चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इदमपां सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति। उपयामगृहीतोऽसि शण्डाय त्वा जुष्टं गृह्णामि ।' परिमृज्य सादयति—'एष ते योनिर्वीर तां पाहि' इति । तदिदं शुक्रपात्रे रसग्रहणमुच्यते । द्र० श्रौ०प०नि० पृ० २७४ । शुक्राग्रत्व-(आध्व०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टमातिरात्रविकृतौ व्यूढद्वादशाहे, समूढद्वादशाहे च धाराग्रहेषु व्यूढे द्वादशाहे तृतीये सप्तमाष्टमयोश्चेति अहस्त्रये समूढे च तृतीये षष्ठे नवमे च इत्यहस्त्रये । इति शुक्रग्रहाग्रता भवति। द्र० मी०को० पृ० ३९३५-३६ । व्यूढद्वादशाहः। शुक्रामन्थिग्रहण- (आध्व०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु प्रात:सवनमाध्यन्दिनसवनयोः प्रतिप्रस्थाता द्वौ प्रोक्षितौ द्वावप्रोक्षितौ समिच्छकलावादाय प्रोक्षिताऽप्रोक्षितौ द्वौ शकलावध्वर्यवे प्रयच्छति । तत: अध्वर्युः शुक्रमादत्ते । प्रतिप्रस्थाता मन्थिनम् । दक्षिणेन प्रोक्षिताभ्यामपिधाया प्रोक्षिताभ्यामधस्तात् सव्येनोपयच्छतः। तदिदं शुक्रामन्थिग्रहणमुच्यते । द्र० श्रौ०प०नि० पृ० २८४ । शुक्रामन्थिप्रचार-(आध्व०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टो... अग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु प्रात: सवनमाध्यन्दिनसवनयोः अध्वर्यु प्रतिप्रस्थतारौ उभौ वषट्कारे जुहुत० सं प्र० जुहोमि स्वाहा । चमसाध्वर्यवश्चमसान् सकृज् जुह्वति । अनुवषट्कारे पुनरुभौ चमसाध्वर्यवश्च । अध्वर्युराह --'प्रैतु होतुश्चमसः प्रब्रहणः प्रोद्गातुः प्र यजमानस्य होत्रकाणां चमसाध्वर्यवः सकृत् द्रोणकलशादभ्युन्नीयोपावर्तध्वम् होतुश्चमसाध्वर्यवुपरम्, एहि प्रतिप्रस्थातः, उत्तरार्ध आहवनीयस्य मन्थिनः संस्रावं जुहुधि' इति, प्रदक्षिणमावृत्य होतुश्चमसे ग्रहस्य संस्रावमवनयति —'हुतं० मनुष्येभ्यः' इति । प्रतिप्रस्थाता आहवनीयस्योत्तरार्धे उपविश्योत्तरार्धे मन्थिनः संस्रावं जुहोति – 'एष ते रु..हा' इति । यजमानप्रतिप्रस्थातारौ अप उपस्पृशत: । प्रतिप्रस्थाताऽध्वर्योः शुक्रपात्रमादाय स्वीयं मन्थिपात्रं च खरे सादयति । सोऽयं शुक्रमन्थिप्रचार उच्यते। द्र० श्रौ०प०नि० पृ० २८५ । शुक्रियकाण्ड-(सा०, आध्व०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे सप्रवर्ये प्रवर्ग्यवत्सु च प्रयोक्तव्या या माध्यन्दिनसंहितायाः चत्वारो (३६-३९) अध्यायाः शुक्रियकाण्डमुच्यते । ‘आथर्वण एतं शुक्रमेतं यज्ञं (प्रवर्ग्यं) विदांचकार' (श० ब्रा० १४।१।१ । २०) इति श्रुतेः (मा०सं० महीधरः ३६ ।१)। द्र० प्रवर्ग्य- । शुक्रिययजुस्- (सा०, आध्व०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे सप्रवर्ग्ये प्रवर्ग्यवत्सु च प्रयोक्तव्यानि 'प्रजापतिं वै देवा: शुक्रं पयोऽदुह्रन् । तदेभ्यो न व्यभवत् । तदग्निर्व्यकरोत् । तानि शुक्रियाणि सामान्यभवन् । तेषां यो रसोऽत्यक्षरत् । तानि शुक्रयजूंष्यभवन् । शुक्रियाणां वा एतानि (यजूषि) शुक्रियाणि'। शुक्रियसामन्– सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्र विकृतौ अयनसत्रप्रकरणे गवामयने मध्यमे विषुवत्यहनि प्रयोक्तव्यानि सादित्यव्रतानि शुक्रियाणि (सामानि) (नि० सू० ५।१।२)। सादित्यव्रतानि शुक्रियाणि विषुवति (नि० सू० ५ ।१ ।२२)। - श्रौतयज्ञप्रक्रिया – पदार्थानुक्रमकोषः(राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली, २००५)
शुचि १. यञ्शुचये, पूत एवास्मिन् रुचं दधाति । मै १, ६, ८ । २. यच् ( अग्नेः ) छुचि (रूपम् ) तद्दिवि (न्यधत्त ) । माश २, २, १, १४ । ३. या वाजिन्नग्नेः शुचिः प्रिया तनूस्तामावह । मै १,६,२ । ४. (अग्नेः ) या शुचिर् ( तनूरासीत् ) अमुमादित्यं तया (प्राविशत्)। काठ ८, ९ । ५. वीर्य्यं वै शुचि यद्वाऽ अस्य ( अग्नेः ) एतदुज्ज्वलत्येतदस्य वीर्य्यꣳ शुचि । माश २,२,१,८ । [°चि- अग्नि- ६५२; आदित्य- ५४; आयुस्- ४२; शुक्र- ३ द.] । शुचि-जिह्व- अग्नि- ७०८ द्र. । शुचि-व्रत- अन्नं वै देवाश् शुचिव्रतमित्याचक्षते । जै ३, १७४ । |