पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Shamku - Shtheevana)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

 

Shamku -  Shankushiraa  ( words like Shakata/chariot, Shakuna/omens, Shakuni, Shakuntalaa, Shakti/power, Shakra, Shankara, Shanku, Shankukarna etc. )

Shankha - Shataakshi (Shankha, Shankhachooda, Shachi, Shanda, Shatadhanvaa, Shatarudriya etc.)

Shataananda - Shami (Shataananda, Shataaneeka, Shatru / enemy, Shatrughna, Shani / Saturn, Shantanu, Shabara, Shabari, Shama, Shami etc.)

Shameeka - Shareera ( Shameeka, Shambara, Shambhu, Shayana / sleeping, Shara, Sharada / winter, Sharabha, Shareera / body etc.)

Sharkaraa - Shaaka   (Sharkaraa / sugar, Sharmishthaa, Sharyaati, Shalya, Shava, Shasha, Shaaka etc.)

Shaakataayana - Shaalagraama (Shaakambhari, Shaakalya, Shaandili, Shaandilya, Shaanti / peace, Shaaradaa, Shaardoola, Shaalagraama etc.)

Shaalaa - Shilaa  (Shaalaa, Shaaligraama, Shaalmali, Shaalva, Shikhandi, Shipraa, Shibi, Shilaa / rock etc)sciple, Sheela, Shuka / parrot etc.)

Shilaada - Shiva  ( Shilpa, Shiva etc. )

Shivagana - Shuka (  Shivaraatri, Shivasharmaa, Shivaa, Shishupaala, Shishumaara, Shishya/de

Shukee - Shunahsakha  (  Shukra/venus, Shukla, Shuchi, Shuddhi, Shunah / dog, Shunahshepa etc.)

Shubha - Shrigaala ( Shubha / holy, Shumbha, Shuukara, Shoodra / Shuudra, Shuunya / Shoonya, Shoora, Shoorasena, Shuurpa, Shuurpanakhaa, Shuula, Shrigaala / jackal etc. )

Shrinkhali - Shmashaana ( Shringa / horn, Shringaar, Shringi, Shesha, Shaibyaa, Shaila / mountain, Shona, Shobhaa / beauty, Shaucha, Shmashaana etc. )

Shmashru - Shraanta  (Shyaamalaa, Shyena / hawk, Shraddhaa, Shravana, Shraaddha etc. )

Shraavana - Shrutaayudha  (Shraavana, Shree, Shreedaamaa, Shreedhara, Shreenivaasa, Shreemati, Shrutadeva etc.)

Shrutaartha - Shadaja (Shruti, Shwaana / dog, Shweta / white, Shwetadweepa etc.)

Shadaanana - Shtheevana (Shadaanana, Shadgarbha, Shashthi, Shodasha, Shodashi etc.)

 

 

शुक

पुराणेषु  सार्वत्रिक रूपेण उल्लेखाः सन्ति यत् शुकः विषयाणां त्यागं कृत्वा ऊर्ध्वगतिं प्राप्नोति, किन्तु महाभारत शान्तिपर्वे ३४१ अयं उल्लेखः अधिकं स्पष्टरूपेण कथितमस्ति। अत्र न विषयानां त्यागः, अपितु दोषाणां त्यागः कथितमस्ति। - प्रातिष्ठत शुकः सिद्धिं हित्वा दोषांश्चतुर्विधान्।। तमो ह्यष्टगुणं हित्वा जहौ पञ्चविधं रजः। ततः सत्वं जहौ धीमांस्तदद्भुतमिवाभवत्।। एते कथनाः शुक शब्दस्य रहस्यस्य उद्घाटने कुञ्जीस्वरूपाः सन्ति। शुक शब्दः व्यापकं अर्थं धारयति। शकुन, शूक, शुक च सर्वेपि शब्दाः शुक शब्दे निहिताः सन्ति। गोधूम, यव सदृशानां येषां धान्यानां मंजरीषु उपरि तीक्ष्णाः तन्तवः भवन्ति, ते शूकधान्याः  इति संज्ञां धारयन्ति। शूक अर्थात् तीक्ष्ण। शूक शब्दस्य मूलं शो – तीक्ष्णीकरणे धात्व्यां अस्ति। शब्दकल्पद्रुम शब्दकोशे शुक शब्दस्य संदर्भे अस्य निरुक्तिः शुभ – दीप्तौ अर्थे कृतमस्ति। किन्तु अयं निरुक्तिः उचितं नास्ति, इति प्रतीयते। व्यास – पुत्र शुकेन विषयाणां, दोषाणां त्यागं कृत्वा ऊर्ध्वमुखी गति प्राप्तिः तीक्ष्णीकरणस्य प्रमाणं अस्ति। तीक्ष्णीकरणस्य परिणामं किं भविष्यति। पूर्वं यः केवलं शकुनं आसीत्, तत् सत्या वाक् भविष्यति। शुकखगस्य पूर्वकथनं प्रसिद्धमस्ति।

     पुराणेषु सार्वत्रिक रूपेण कथनमस्ति यत् व्यास-पुत्रः शुकः अन्ततोगत्वा पीवरी कन्यया सह विवाहं करोति सन्तानोत्पत्तिं च करोति। यथा पीवरी शब्दस्य टिप्पण्यां कथितमस्ति, पीवरी शब्दः इच्छाशक्त्याः अभीप्सायाः वा पीवनेन, प्रवर्धनेन सम्बद्धं अस्ति। इच्छाशक्त्याः प्रवर्धनं  ज्ञानशक्तेः  क्रियाशक्तेः च सहयोगेन संभवं अस्ति।

     भविष्य पुराणे वेतालपञ्चविंशति अन्तर्गते कथा संक्षेपरूपेण एवं अस्ति – भोगापुर्यां रूपवर्मा नाम राजा स्वानुरूप कन्या हेतु चूडामणिं संज्ञकं शुकं (खगं) पृच्छति। शुकः मगधेशस्य कन्यायाः चन्द्रवत्याः संकेतं ददाति। रूपवर्मणः राज्ञः चन्द्रवत्या सह विवाहं भवति। चन्द्रवती एकस्याः मदनमंजरी संज्ञकायाः मेनायाः स्वामिनी अस्ति। राजा रूपवर्मा प्रस्तावं करोति यत् शुक-मेनायाः विवाहं भवेत्। परन्तु मदनमंजरी मेना इदं प्रस्तावं अस्वीकारं करोति। कारणरूपेण सा उत्तम, मध्यम,  अधम पुरुषस्य  उल्लेखं करोति,  एकां कथां च कथयति  यत् इलापुरे मदपाल संज्ञकः एकः वैश्यपुत्रः स्वधनं द्यूते व्ययं अकरोत्। ततः सः देशान्तरं अगच्छत् हेमपतिनाम्नः वैश्यस्य सुतया सार्धं च विवाहमकरोत्। सः तत्र न केवलं श्वसुरस्य धनं द्यूते व्ययमकरोत्  अपितु पतिव्रतायाः पत्न्याः अपि हननमकरोत्। अतः सा मेना चूडामणि संज्ञकेन शुकेन सार्धं विवाहं न करिष्यति। तदुपरान्त शुकोपि कथयति यत् सः मदनमंजरी मेनया सह विवाहं न करिष्यति। कारणरूपेण सः कथयति यत् मेना अधमा, कुरूपा, श्यामांगी नारी अस्ति किन्तु सः स्वयं उत्तमः पुरुषः अस्ति। सः एकां कथां कथयति यत् कांचनपुरे श्रीदत्त संज्ञकः एकः पुरुषः आसीत् यस्य विवाहं जयश्रीपत्तनवासिनी जयलक्ष्म्या सह अभवत्। यदा श्रीदत्तः कार्यवशात् विदेशं अगच्छत्, तदा तस्य पत्नी जारिणी अभवत्।  तस्याः पतिः यदा विदेशतः प्रत्यागच्छति, तदा सा रात्रौ स्वां पतिं प्रति नागच्छत्, अपितु स्वजारं होमदत्तं प्रति अगच्छत्। होमदत्तः सर्पदंष्ट्रेण मृत्युमगात् जारिणी जयलक्ष्मी च जारस्य मृतदेहस्यैव आलिंगनमकरोत्। तदा वृक्षोपरि स्थितः पिशाचः मृतदेहे प्रविश्य जयश्रियायाः नासिकायाः कर्तनं अकरोत्। तदा जयश्री स्वनासिकायाः कर्तनस्य दोषं स्वपतिं श्रीदत्तोपरि आरोपयति किन्तु सत्यस्य उद्घाटनोपरान्तं राजा तस्याः नगरनिष्कासनादिकं करोति।

     कथासरित्सागरे अस्य कथायाः रूपान्तरं एवंरूपेण अस्ति – शुकस्य नाम चूडामणि स्थाने विदग्धचूडामणिरस्ति, मेनाकायाः/शारिकायाः नाम मदनमंजरी स्थाने सोमिका अस्ति, पुरुषदोष निरूपक कथायां वैश्यपुत्रस्य नाम मदपालस्य स्थाने धनदत्तः अस्ति। शुक-कथित स्त्रीदोष निरूपक कथायां जारिणी स्त्रियाः नाम जयलक्ष्मी स्थाने वसुदत्ता अस्ति यस्याः विवाहं समुद्रदत्त संज्ञक पुरुषेण सह भवति। तस्याः जारस्य नाम नास्ति। अन्ततः शुकः स्वर्गलोके चित्ररथः गन्धर्वः भवति  मेना (शारिका) च तिलोत्तमा अप्सरा भवति (अयं उल्लेखः भविष्यपुराणे नास्ति)।

वेतालपञ्चविंशत्याः कथायाः विश्लेषणकरणस्य पूर्वं इदं ज्ञानं महत्त्वपूर्णं अस्ति यत् शुकस्य  मेनायाः/सारिकायाः च चरमा स्थितिः का अस्ति। भागवत पुराणे प्रसिद्धा कथा अस्ति यत् यदा राजा परीक्षितः प्रायोपवेशने तिष्ठति, तदा तस्य समक्षं शुकस्य प्रकटनं भवति। इदं संकेतं अस्ति यत् परि-क्षितस्य, परितः क्षिप्तस्य लोपकरणं, तस्य शिक्षणं वा शुकस्य पराकाष्ठा अस्ति। इन्द्रियाणां अस्तित्वं अस्याः परिक्षिप्तायाः ऊर्जायाः कारणेन एवास्ति। पुराणेषु कथनमस्ति यत् यदा शुकः देवस्थानस्य परिक्रमां करोति, तदा सः भावी जन्मे राजा भवति। अत्र देवस्थानस्य परिक्रमणं परि-क्षितस्य ऊर्जायाः नियन्त्रणस्य एव संकेतमस्ति। यावत् च चेतनामध्ये दोषाणां अस्तित्वं अस्ति, तावत् ऊर्जायाः संक्षेपणं, अन्तःस्थापनं संभवं नास्ति। अतएव पुराणेषु व्यास-पुत्र शुकेन दोषाणां त्यागानन्तरं  ऊर्ध्वगति प्राप्तेः उल्लेखाः सन्ति। ऊर्ध्वगतिप्रापणानन्तरं परितः भ्रमणं उचितं अस्ति।

     सारिकायाः पराकाष्ठा संदर्भे शब्दकल्पद्रुमे अभिसारिका शब्दान्तर्गते कथनं भवति – अभिसरति, कान्तनिर्द्दिष्ट संकेतस्थानं गच्छति या, सङ्केतस्थले स्वयं गमनकर्त्री प्रिय गमनकारयित्री वा । सा त्रिविधा । दिवाभिसारिका १ ज्योत्स्नाभिसारिका २ अन्धकाराभिसारिका ३ । इति रसमञ्जरी ॥ :(कान्तार्थिनी तु या याति संकेतं साभिसारिका इत्युक्तलक्षणा कान्तप्रार्थनया स्वयं संकेतस्थान-गामिनी, स्वस्थाने वा कान्तानयनकारिणी नायिका । मेना शब्दस्य संदर्भे मेना शब्दोपरि टिप्पणी द्रष्टव्या अस्ति

वैदिक साहित्य में एक शब्द मे॒नि है जिसकी परिगणना वज्र नामों में की गई है। अथर्ववेद ५.६.९ में कामना की गई है कि हमारे शत्रु अमेनयः हो जाएं(मेन्या मेनिरस्यमेनयस्ते सन्तु येऽस्मामभ्यघायन्ति ॥)। मैत्रायत्री संहिता २.४.५ में उल्लेख है कि मे॒नि अदक्षिणावान् यज्ञ है(सर्वो वा एष यज्ञः, सर्वेणैवैनं यज्ञेनाभिचरति , अदक्षिणः तु स्या, स्तत्स्विन्मेनिमक , र्मेनिर् ह्यदक्षिणो)। इससे यह निष्कर्ष निकाला जा सकता है कि जहां मेनि अदक्षिणावान् यज्ञ का, अभिचार का रूप है, वहीं मेना दक्षिणावान् यज्ञ का रूप होना चाहिए। यही कारण है कि मेना से उमा/गौरी का जन्म होता है।

अनन्यअली जी की वाणी पुस्तके कथनं भवति यत् येन-येन प्रकारेण करतलगत मैना चिन्तनं करोति, श्रीकृष्णः तत्तदानुसारं रूपं परिवर्तयति। इदं वर्णनं शुकस्य पीवरी पत्न्याः गुणैः साम्यं धारयति यत्र अभीप्सायाः प्राधान्यं अस्ति। कथासरित्सागरे सारिकायाः पराकाष्ठा तिलोत्तमा संज्ञया  कथितमस्ति।

     भविष्यपुराणे पुंदोष निरूपक कथामध्ये वैश्यपुत्रस्य दोषः तस्य द्यूतप्रियता अस्ति येन कारणेन सः सर्वधनस्य व्ययं करोति  पत्नीं अपि च हन्ति।  जारिण्याः नामधेयं जयश्रीः अस्ति, जारस्य होमदत्तः। तस्याः पतेः नाम श्रीदत्तः अस्ति। होमदत्तस्य संदर्भे अयं प्रतीयते यत् होमः कामनानां होमेन सम्बद्धं अस्ति। कामनायाः यः प्रकारः भवति, तदनुसारेणैव होमस्य स्वरूपं भवति। जयश्री अर्थात् श्रियोपरि जयस्य कामना अस्ति। तस्याः पत्योः नाम श्रीदत्तः अस्ति। अत्र न जयस्य कामना, अपितु नैसर्गिक रूपेण या विभूतिः प्राप्ता अस्ति, तस्याः संकेतं अस्ति। कामनानुसारेण होमेन या प्राप्तिः अस्ति, तस्याः सर्पदंशनं, विषेण मरणं संभवमस्ति। मृत पुरुषेण सह संभोगस्य परिणामं अयं भवति यत् जयश्रियायाः नासिकायाः कर्तनं भवति। नासिका कर्तनस्य किं अभिप्रायं संभवमस्ति। नासिकया प्राणस्य ग्रहणं भवति, दूषितानां प्राणानां  निष्कासनं च भवति। यदि नासिकया प्राणानां ग्रहणं न भवेत्, तर्हि अस्मिन् देहे जीवस्य लोपं भवेत्। कथासरित्सागरे सारिकायाः पराकाष्ठा तिलोत्तमा रूपेण कथितं अस्ति। पुराणे(ब्रह्मवैवर्त्त ४.२३.१४८) कथनं अस्ति यत् तिलोत्तमा एकस्मिन् जन्मनि बाण – पुत्री उषा आसीत्। इदं संकेतं अस्ति यत् यदि प्रकृतिः प्राणानां आदानं न करोतु चेत्, तदा तस्याः उषा रूपे परिवर्तनं संभवं न भवेत्। उषा अर्थात् जड द्रव्ये प्राणानां उदयं। यदि उषा न भवेत्, तदा न रूपस्य दर्शनं भवेत्। अतः नासिकाकर्तनं विरूपीकरणस्य संकेतं अस्ति। शुकस्य पराकाष्ठा कथासरित्सागरे चित्ररथ गन्धर्व रूपेण कथितमस्ति। चित्ररथस्य अपर संज्ञा पुष्पदन्तः अस्ति(शिव पुराणम् २.५.३.२)। पुष्पदन्त गजः बृहत्साम्नः(त्वामिद्धि हवामहे इति) प्रतीकमस्ति(ब्रह्माण्ड पु. २.३.७.३३७)। बृहत्साम्ना सूर्यः स्वऊर्जायाः वितरणं पृथिव्योपरि करोति, अयं प्रतीयते।

तद् धैवेन्द्रो ऽनुबुध्य शुको भूत्वोत्पपात। तं हान्वीक्ष्य पतन्तम् उवाच येषाम् असौ हरितवर्णकः पतति ते जेष्यन्तीति। स होशनसं काव्यम् आजगामासुरेषु। - जै.ब्रा. १.१२६


उद्यन्न् अद्य वि नो भज । पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य ह_इशिषे । तस्य नो देहि सूर्य । उद्यन्न् अद्य मित्रमहः । आरोहन्न् उत्तरां दिवम् । हृद्रोगं मम सूर्य । हरिमाणं च नाशय । शुकेषु मे हरिमाणम् । रोपणाकासु दध्मसि । - तै.ब्रा. ३.७.६.२२

छुबुकेनोपस्पृशेच्छुको हैवं वृक्षमधिरोहति स उ वयसामन्नादतम इति तस्माच्छुबुकेनोपस्पृशेत्, इति । - ऐ.आ.1.2.4

यामं शुकं हारितम् आलभेत शुण्ठं वा यः कामयेतानामयः पितृलोके स्याम् इति एतेन ह वै यमो ऽमुष्मिंल् लोक आर्ध्नोत् पितृलोक एवार्ध्नोति – गोपथ ब्रा. २.२.१

आकाशाद्वायुं वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यान्नं भवन्ति त एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् – श.ब्रा. १४.९.१.१९

तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता । नीलतोयदमध्यस्थाद्विद्युल्लेखेव भास्वरा । नीवारशूकवत्तन्वी परमात्मा व्यवस्थित इति । - वासुदेवोपनिषद

विक्रोशति शुको राजन्! सारिका वमते ततः। चामीकरोऽन्यतो याति मृत्युं कारण्डवस्तथा ।। मत्स्य २१९.२० ।।

मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका ।

यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥रामायण २-५३-२२