पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Shamku - Shtheevana)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

 

Shamku -  Shankushiraa  ( words like Shakata/chariot, Shakuna/omens, Shakuni, Shakuntalaa, Shakti/power, Shakra, Shankara, Shanku, Shankukarna etc. )

Shankha - Shataakshi (Shankha, Shankhachooda, Shachi, Shanda, Shatadhanvaa, Shatarudriya etc.)

Shataananda - Shami (Shataananda, Shataaneeka, Shatru / enemy, Shatrughna, Shani / Saturn, Shantanu, Shabara, Shabari, Shama, Shami etc.)

Shameeka - Shareera ( Shameeka, Shambara, Shambhu, Shayana / sleeping, Shara, Sharada / winter, Sharabha, Shareera / body etc.)

Sharkaraa - Shaaka   (Sharkaraa / sugar, Sharmishthaa, Sharyaati, Shalya, Shava, Shasha, Shaaka etc.)

Shaakataayana - Shaalagraama (Shaakambhari, Shaakalya, Shaandili, Shaandilya, Shaanti / peace, Shaaradaa, Shaardoola, Shaalagraama etc.)

Shaalaa - Shilaa  (Shaalaa, Shaaligraama, Shaalmali, Shaalva, Shikhandi, Shipraa, Shibi, Shilaa / rock etc)sciple, Sheela, Shuka / parrot etc.)

Shilaada - Shiva  ( Shilpa, Shiva etc. )

Shivagana - Shuka (  Shivaraatri, Shivasharmaa, Shivaa, Shishupaala, Shishumaara, Shishya/de

Shukee - Shunahsakha  (  Shukra/venus, Shukla, Shuchi, Shuddhi, Shunah / dog, Shunahshepa etc.)

Shubha - Shrigaala ( Shubha / holy, Shumbha, Shuukara, Shoodra / Shuudra, Shuunya / Shoonya, Shoora, Shoorasena, Shuurpa, Shuurpanakhaa, Shuula, Shrigaala / jackal etc. )

Shrinkhali - Shmashaana ( Shringa / horn, Shringaar, Shringi, Shesha, Shaibyaa, Shaila / mountain, Shona, Shobhaa / beauty, Shaucha, Shmashaana etc. )

Shmashru - Shraanta  (Shyaamalaa, Shyena / hawk, Shraddhaa, Shravana, Shraaddha etc. )

Shraavana - Shrutaayudha  (Shraavana, Shree, Shreedaamaa, Shreedhara, Shreenivaasa, Shreemati, Shrutadeva etc.)

Shrutaartha - Shadaja (Shruti, Shwaana / dog, Shweta / white, Shwetadweepa etc.)

Shadaanana - Shtheevana (Shadaanana, Shadgarbha, Shashthi, Shodasha, Shodashi etc.)

 

 

श्रोत्र-

चक्षुरुपरि टिप्पणी

वैदिकवाङ्मये अयं अनुत्तरितं प्रश्नमस्ति यत् चक्षुषोः ऊर्जा प्रथमा अस्ति अथवा श्रोत्रयोः। आधुनिकविज्ञाने एका फोटोएकास्टिक स्पेक्ट्रांस्कोपी प्रचलिता अस्ति यस्य आधारः अयमस्ति यत् यदा द्रव्योपरि प्रकाशस्य आपतनं भवति, तदा द्रव्यः प्रकाशस्य अवशोषणं कृत्वा अवशोशितायाः ऊर्जायाः उत्सर्जनं करोति। अयं उत्सर्जनं मुख्यरूपेण अवरक्तप्रकारस्य प्रकाशरूपेण भवति। यदि केनापि कारणेन उत्सर्जनं अवरक्तप्रकाशरूपेण न भवेत्, तदा ऊर्जायाः उत्सर्जनं पराध्वनिरूपेण, कम्परूपेण भवति। यदि अस्याः पराध्वन्याः गुणानां अध्ययनं क्रियतां चेत्, तदा द्रव्यस्य गुणानां उद्घाटनं अपि भवति।

ऋग्वेदस्य ९.१०६.१ ऋक् अस्ति –

इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।
श्रुष्टी जातास इन्दवः स्वर्विदः ॥

अस्य सूक्तस्य ऋषिः अग्निः चाक्षुषः अस्ति। अत्र इन्दवः किमस्ति, अस्मिन् संदर्भे इन्दु उपरि टिप्पणी पठनीयः अस्ति। डा. सुकर्मपाल सिंह तोमरस्य शोधप्रबन्धे कथनमस्ति यत् इन्दवः   मानसिक स्तरस्य सोमः अस्ति, इन्दुः विज्ञानमय एवं उच्चतराणां स्तराणां सोमः। बह्वीषु ऋचासु  उल्लेखं अस्ति – विशन्तु इन्दवः(इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः। - ऋ. १.१५.१, आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम्॥ - ४.०५०.१०, आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः। - ८.९२.२२) । अयं संकेतमस्ति यत् इन्दवः मनसः अथवा चित्तस्य प्रतिनिधिः अस्ति यस्य प्रकृतिः विस्तारस्य अस्ति। अयमपेक्षितमस्ति यत् इन्दवः अन्तर्मुखाः भवन्तु। यः उच्चस्तरस्य इन्दुः अस्ति, तस्य प्रकृतेः उल्लेखं योगवासिष्ठतः ६.१.८१.१०६ प्राप्तव्यमस्ति। कथनमस्ति - स्वसंविन्मयमिन्दुश्चिद्देहस्थं रूपमर्कजम्। इन्दोः ऊर्जा ऊर्ध्वमुखी भूत्वा अर्करूपा भवति। ये चक्षुः, श्रोत्रादयः सप्तर्षयः सन्ति, ते अर्करूपाः सन्ति। तेषु सप्तर्षिषु मध्ये परस्परं संवादं नास्ति। यदा इन्दुः ऊर्ध्वमुखी भविष्यति, तदा तेषां मध्ये संवादं भविष्यति, अयमनुमानः।

या ऊर्जा इन्दवेषु निहिता अस्ति, सा श्रुष्टी, श्रवणयोग्या भवितुं शक्यते(श्रुष्टी शब्दस्य वास्तविक अर्थं अन्वेषणीयमस्ति)। श्रवणस्य किं तात्पर्यमस्ति, अयमपि अन्वेषणीयः। स्वर्विदः – या ऊर्जा इन्दवेषु अस्ति, सा स्थूला अस्ति, तस्याः स्वरीकरणस्य आवश्यकता अस्ति।

संदर्भाः

ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः।

श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश्चराचारः॥ १०.०८५.११

नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत।

पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन्॥ १०.०९०.१४

प्रतिनिर्ग्राह्य मन्त्राः-- श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि देवेभ्यस् त्वा विश्वदेवेभ्यस् त्वा - तैसं ३.२.१०.१

विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि । तैसं , ,१ ०,

वशालम्भार्था मन्त्राः -- किक्किटा ते चक्षुः सूर्याय स्वाहा किक्किटा ते श्रोत्रं द्यावापृथिवीभ्या स्वाहा किक्किटा ते वाच सरस्वत्यै स्वाहा - तैसं ३.४.२.१, काठ १३.११

आश्विनी इष्टकाः-- चक्षुर् उर्व्या  वि भाहि श्रोत्रं मे श्लोकय । तैसं ,, , क २५,१० ।

स्तोमभागा इष्टकाः-- सर्पो ऽसि चक्षुषे त्वा चक्षुर् जिन्व वयोधा असि श्रोत्राय त्वा श्रोत्रं जिन्व । तैसं ,, ,

वसोर्धारा -- स्वरश्च मे श्लोकश्च मे श्रावश् मे श्रुतिश् मे (यज्ञेन कल्पताम्) । तैसं ,, ,

स्तोमभागाख्येष्टका -- सर्प इति चक्षुः वयोधा इति श्रोत्रम्   - तैसं ५.३.६.२

आश्विनग्रहः -- वाग् वा ऐन्द्रवायवश् चक्षुर् मैत्रावरुणः श्रोत्रम् आश्विनः... तस्माद् पुरस्ताच् चक्षुषा पश्यति सर्वतः परिहारम् आश्विनं तस्मात्  सर्वतः श्रोत्रेण शृणोति । तैसं ,,, ।।

उषा वा अश्वस्य मेध्यस्य शिरः     सूर्यश् चक्षुः     वातः प्राणः     चन्द्रमाः श्रोत्रम्     दिशः पादौ     अवान्तरदिशाः पर्शवः - तैसं ७.५.२५.१

दीक्षासंस्काराः - वागेवाग्निः प्राणोदानौ मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वे देवा - माश ३.२.२.१३

दं विश्वस्य भुवनस्य वाजिनमग्नेर्वैश्वानरस्य चेतीहाग्निर्ज्योतिषा ज्योतिष्मान्रुक्मो वर्चसा वर्चस्वानितीह विश्वावतीभ्यां विश्वं हि श्रोत्रम् - मा,,, १२

अपां त्वा सधिषि सादयामीति श्रोत्रं वा अपां सधिः श्रोत्रे तां सादयति तद्या अस्यैतेभ्यो रूपेभ्यो आप आयंस्ता अस्मिन्नेतत्प्रतिदधाति - माश ७.५.२.५५

 

अविं जज्ञानां रजसः परस्मादिति श्रोत्रं वै परं रजो दिशो वै श्रोत्रं परं रजो। माश ,, ,२०

इदमुत्तरात्स्वरिति दिशो वा उत्तरात्तद्यत्ता आहोत्तरादित्युत्तरा ह्यस्मात्सर्वस्माद्दिशोऽथ यत्स्वरित्याह स्वर्गो हि लोको दिशः श्रोत्रं दिशो भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधाति[ तस्य श्रोत्रं सौवमिति श्रोत्रं तस्माद्रूपाद्दिग्भ्यो निरमिमीत शरच्छ्रौत्रीति शरदमृतुं श्रोत्रान्निरमिमीतानुष्टुप्शारदीत्यनुष्टुभं छन्दः ....माश ८.१.२.५

विश्वामित्र ऋषिरिति श्रोत्रं वै विश्वामित्र ऋषिर्यदेनेन सर्वतः शृणोत्यथो यदस्मै सर्वतो मित्रं भवति तस्माच्छ्रोत्रं विश्वामित्र ऋषिः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया त्वयेत्येतच्छ्रोत्रं गृह्णामि प्रजाभ्य इति श्रोत्रमुत्तरतः प्रापादयत नानोपदधाति ये नाना कामाः श्रोत्रे तांस्तद्दधाति सकृत्सादयत्येकं तच्छ्रोत्रं करोत्यथ यन्नाना सादयेच्छ्रोत्रं विच्छिन्द्यात् - माश ८.१.२.६

सुपर्णचितिः - प्राणो गायत्री चक्षुरुष्णिग्वागनुष्टुम्मनो बृहती श्रोत्रं पङ्क्तिः - माश १०.३.१.१

दिश एव सम्राडिति होवाच तस्माद्वै सम्राड्यां कां दिशं गच्छति नैवास्या अन्तं गच्छत्यनन्ता हि दिशः श्रोत्रं हि दिशः श्रोत्रं वै सम्राट्परमं ब्रह्म । माश १४, , १०, १२   

श्रोत्रं वै सम्पच्छ्रोत्रं हीमे सर्वे वेदा अभिसम्पन्नाः । माश १४,, ,

श्रोत्रं ह वा उ सम्पद् । शांआ ९,२ ।

 

हृदयं प्रेतिर् मनस् संततिश् चक्षुर् आनतिश् श्रोत्रम् उपनतिर् वाग् आगतिः॥ - जै १.१४

धू -- रेत एव रेतस्यासिञ्चत् प्राणं गायत्र्या समैरयच् चक्षुस् त्रिष्टुभा श्रोत्रं जगत्या वाचम् अनुष्टुभा। आत्मानम् एव पंक्तया प्रत्युपादधात् - जै १.९९

त्रिष्टुभं गायति। चक्षुर् वै त्रिष्टुप्। तस्यै द्वे अक्षरे द्योतयति। चक्षुषी एव तद् दधाति। तस्माद् युक्ते इव चक्षुषी। ज्योतिः इति निधनं करोति। चक्षुर् वै ज्योतिः। चक्षुष्य् एव तत् प्रतितिष्ठति॥ जगतीं गायति। श्रोत्रं वै जगती। तस्यै चत्वार्य् अक्षराणि द्योतयति। श्रोत्रम् एव तद् दधाति। श्रोत्रे द्वे परिश्रवणे द्वे। तस्मात् समानत्र सन् सर्वा अनुदिशश् शृणोत्य् अपि पराङ् यन् पश्चाद् वदश् शृणोति। इळा इति निधनं करोति पशवो वा इडा। पशुष्व् एतत् प्रतितिष्ठति॥जै ,१०२

यद् बहिष्पवमानं गायति। मन एव रेतस्यया समीरयति प्राणं गायत्र्या चक्षुस् त्रिष्टुभा श्रोत्रं जगत्या वाचम् अनुष्टुभा। आत्मानम् एव पंक्त्या प्रत्युपदधाति। - जै १.२५३

अथ जगती। श्रोत्रम् एव तत्। तस्याम् एकं साम। तस्माद् एतेनैकम् एव श्रोत्रेण करोति यद् एव शृणोति। चतुष्पदायाम् ऋचि भवति। तस्मात् समानत्र सन् सर्वा अनुदिशश् शृणोति। अपि पराङ् यन् पश्चाद् वदतश् शृणोति॥- जै १.२५४,

त्रिष्टुभं गायति। चक्षुर् वै त्रिष्टुप्। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान् नियुक्तम् इव चक्षुः। ताम् अन्यत्रायतनां सतीं नियुनक्ति। तस्माद् उत जीवत एव चक्षुर् अपक्रामति॥ जगतीं गायति। श्रोत्रं वै जगती। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान् नियुक्तम् इव श्रोत्रम्। ताम् अन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनां वा। तां यद् अन्यत्रायतनां सतीं नियुनक्ति तस्माद् उत जीवत एव श्रोत्रम् अपक्रामति। - जै १.२६८

चक्षुर् वै मनुष्यधूर् आदित्यो देवधूः।….श्रोत्रं वै मनुष्यधूर् दिशो देवधूः। जगत्यां प्रस्तुतायां श्रोत्रेण दिशस् संदध्यात्। तद् अन्तरा यजमानस्य श्रोत्रम् अवयातयेत्।-जै १.२७०

चक्षुरादित्यस्स महात्मा देवः यत्र स्वपिति तच्चक्षुः प्राणो गिरति श्रोत्रं दिशस्ता महात्मानो देवाः यत्र स्वपिति तच्छ्रोत्रं प्राणो गिरति - जै १.२७०, जैउ ३.१.२.८, ऐआ २.४.१, उ १.४.१

प्राण एव दिवाकीर्त्यम्। चक्षुषी भ्राजाभ्राजे। श्रोत्रं विकर्णम्। वाग् दशस्तोभम्। - जै २.३७

उद्गात्रे ददद् ब्रूयाद् उद्गातश् चक्षुस् ते ददानि, तद् अनेन निष्क्रीणान्य्, उद्गातर् इदं ददानीति - यद् दास्यन् स्यात्। यच् चक्षुर् ददात्य् - आदित्यो वै चक्षुर् - आदित्यम् एवास्मै तद् ददाति।......होत्रकेभ्यो ददद् ब्रूयाद् धोत्रका श्रोत्रं वो ददानि, तद् अनेन निष्क्रीणानि, होत्रका इदं ददानीति - यद् दास्यन् स्यात्। यच् छ्रोत्रं ददाति - दिशो वै श्रोत्रं - दिश एवैभ्यस् तद् ददाति। - जै २.५४, ऐआ २.१.५

एतावान् वाव त्रिरात्रः। गायत्रः प्राणस्, त्रैष्टुभं चक्षुर्, जागतं श्रोत्रम्। - जै २.२४२, तां २०.१६.५

चक्षुर् एवाष्टमम् अहस् त्रैष्टुभम्। श्रोत्रमेव नवममहर्जागतम् । जै , ३१९

श्रोत्रं (कं वै जै ११०२) जगती । जै १२६६,२५८ ।    

आयुषे कमग्निहोत्रं हूयते , सर्वमायुरेति एवं वेद , चक्षुषे कं दर्शपूर्णमासा इज्येते , चक्षुषो गृहे एवं वेद , श्रोत्राय कं चातुर्मास्यानीज्यन्ते , श्रोत्रस्य गृहे एवं वेद , वाचे चात्मने कं सौम्योऽध्वर इज्यते , वाचो नात्मनो गृहे एवं वेद -   मै १.९.५

प्राणो वै दशहोता , चक्षुश्चतुर्होता , श्रोत्रं पञ्चहोता , वाक् चात्मा सप्तहोता , अग्निहोत्रं वै दशहोता , दर्शपूर्णमासौ चतुर्होता , चातुर्मास्यानि पञ्चहोता , सौम्योऽध्वरः सप्तहोता - मै १.९.५, काठ ९.१३,

इदं उत्तरात् स्व, स्तस्य श्रोत्रं सौवं , शरच् श्रौत्री , अनुष्टुप् शारदी , अनुष्टुभ ऐडम्, ऐडान्मन्थी, मन्थिन एकविंश , एकविंशाद् वैराजं , विश्वामित्रा ऋषिः, प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि, प्रजाभ्य - मै २.७.१९

वाचे प्लुषीन् , चक्षुषे मशकान् , श्रोत्राय भृङ्गाः (आलभते)- मै ३.१४.८

वाग् ऐन्द्रवायवो , दक्षक्रतू मैत्रावरुणः , आश्विनः श्रोत्रं , चक्षुषी शुक्रामन्थिनौ - मै ४.५.९

वाचं ऐन्द्रवायवः पातु, दक्षक्रतु ते मैत्रावरुणः पातु, श्रोत्रं आश्विनः पातु, चक्षुषी ते शुक्रामन्थिनौ पाताम्- मै ४.८.७  

सुषदा पश्चात्, सवितुर् आधिपत्ये, चक्षुर्मे दाः आश्रुतिरुत्तरतो, मित्रावरुणयोराधिपत्ये, श्रोत्रं मे दाः - मै ४.९.३ तैआ ४.५.३

विष्णोः श्रोणा पृच्छमानाः परस्तात्पन्था अवस्तात् तैब्रा १.५.१.४

सूर्यो मे चक्षुषि श्रितः चक्षुर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ……दिशो मे श्रोत्रे श्रिताः श्रोत्रँ हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि । तै , १०, ,

प्राणाद्वायुरक्षिणी निरभिद्येतामक्षीभ्यां चक्षुश्चक्षुष आदित्यः कर्णो निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिश । ऐआ , ,, ऐउ १, , ४ ।

पानाच्चक्षुस्संतनु चक्षुषश्श्रोत्रँ संतनु श्रोत्राद्वाचँ संतनु वाच आत्मानँ संतन्वात्मनः पृथिवीँ संतनु पृथिव्या अन्तरिक्षँ संतन्वन्तरिक्षाद्दिवँ संतनु दिवस्स्वस्संतनु । काठ ३९,

श्रोत्रम् अग्नीत् - तैआ १०.६४

अन्तरिक्ष- ११३ काठ १.७, ३१.६, क १.७

प्राणो दशहोता चक्षुश्चतुर्होता श्रोत्रं पञ्चहोता वाक्चात्मा सप्तहोतायुषे कमग्निहोत्रँ हूयते – काठ ९.१३

चक्षुषे कं पूर्णमा इज्यते चक्षुषो गृहये एवं वेद श्रोत्राय कममावस्येज्यते श्रोत्रस्य गृहये एवं वेद  काठ ९.१३

चक्षुरेव दर्शश्चक्षुर्हीदं ददृश इव, श्रोत्रमेव पूर्णमाः श्रोत्रेण हीद सर्वं पूर्णम्-   काश ३.२.९.३

शीर्षत एव यज्ञस्य यजमान आशिषोऽव रुन्धे आयुः पुरस्तादाह प्रजां दक्षिणतः प्राणं पश्चात् श्रोत्रमुत्तरतः विधृतिमुपरिष्टात् - तैआ ५.४.७.

चक्षुर्म्मेऽध्वर्युः मोपह्वयतामध्वर्य्य उप मा ह्वयस्वेत्युच्चैः ---- श्रोत्रं उद्गाता मोपह्वयतामुद्गातरुप मा ह्वयस्वेत्युच्चैः - २.६.२, २.७

यत्तच्चक्षुरासीत्स आदित्योऽभवत् अथ यत्तच्छ्रोत्रमासीत्ता इमा दिशोऽभवन्ता एव विश्वे देवाः - जैउ २.१.२.४,

 पद्भ्यां भूमिर्दिशः श्रोत्रात् तथा लोका अकल्पयन्  - काठसं १०१.९, तैआ ३.१२.६

ऊर्जं वा एत रसं पृथिव्या उपदीका उद्दिहन्ति यद्वल्मीकम् यद्वल्मीकवपा संभारो भवति ऊर्जमेव रसं पृथिव्या अव रुन्धे अथो श्रोत्रमेव श्रोत्र ह्येतत्पृथिव्याः यद्वल्मीक अबधिरो भवति एवं वेद - तैआ ५.२.९ तै १.१.३.४,

ब्रह्मन्- १४८ ऐ २.४०

वाच- ६२ जैउ ४.११.१.११

या वाक् सो ऽग्निः यः प्राणः वरुणः यन् मनः इन्द्रः यच् चक्षुः स बृहस्पतिः यच् छ्रोत्रं विष्णुः एते वा एतान् पञ्चभिः प्राणैः समीर्योदस्थापयन् - गो २.४.११.

श्रोत्रिय- श्रोत्रियम् स्त्रीकामतमः । काठ २३, , क ३६,१ ।। [०य- ब्राह्मण- ३१.

श्लोकाऽनुश्लोक- श्लोकानुश्लोकाभ्या९ (सामविशेषाभ्यां) हविर्द्धाने उपतिष्ठन्ते कीर्त्तिमेव तज्जयन्ति । तां ,,१०