पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Shamku - Shtheevana)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

 

Shamku -  Shankushiraa  ( words like Shakata/chariot, Shakuna/omens, Shakuni, Shakuntalaa, Shakti/power, Shakra, Shankara, Shanku, Shankukarna etc. )

Shankha - Shataakshi (Shankha, Shankhachooda, Shachi, Shanda, Shatadhanvaa, Shatarudriya etc.)

Shataananda - Shami (Shataananda, Shataaneeka, Shatru / enemy, Shatrughna, Shani / Saturn, Shantanu, Shabara, Shabari, Shama, Shami etc.)

Shameeka - Shareera ( Shameeka, Shambara, Shambhu, Shayana / sleeping, Shara, Sharada / winter, Sharabha, Shareera / body etc.)

Sharkaraa - Shaaka   (Sharkaraa / sugar, Sharmishthaa, Sharyaati, Shalya, Shava, Shasha, Shaaka etc.)

Shaakataayana - Shaalagraama (Shaakambhari, Shaakalya, Shaandili, Shaandilya, Shaanti / peace, Shaaradaa, Shaardoola, Shaalagraama etc.)

Shaalaa - Shilaa  (Shaalaa, Shaaligraama, Shaalmali, Shaalva, Shikhandi, Shipraa, Shibi, Shilaa / rock etc)sciple, Sheela, Shuka / parrot etc.)

Shilaada - Shiva  ( Shilpa, Shiva etc. )

Shivagana - Shuka (  Shivaraatri, Shivasharmaa, Shivaa, Shishupaala, Shishumaara, Shishya/de

Shukee - Shunahsakha  (  Shukra/venus, Shukla, Shuchi, Shuddhi, Shunah / dog, Shunahshepa etc.)

Shubha - Shrigaala ( Shubha / holy, Shumbha, Shuukara, Shoodra / Shuudra, Shuunya / Shoonya, Shoora, Shoorasena, Shuurpa, Shuurpanakhaa, Shuula, Shrigaala / jackal etc. )

Shrinkhali - Shmashaana ( Shringa / horn, Shringaar, Shringi, Shesha, Shaibyaa, Shaila / mountain, Shona, Shobhaa / beauty, Shaucha, Shmashaana etc. )

Shmashru - Shraanta  (Shyaamalaa, Shyena / hawk, Shraddhaa, Shravana, Shraaddha etc. )

Shraavana - Shrutaayudha  (Shraavana, Shree, Shreedaamaa, Shreedhara, Shreenivaasa, Shreemati, Shrutadeva etc.)

Shrutaartha - Shadaja (Shruti, Shwaana / dog, Shweta / white, Shwetadweepa etc.)

Shadaanana - Shtheevana (Shadaanana, Shadgarbha, Shashthi, Shodasha, Shodashi etc.)

 

 

शिपिविष्ट

निरुक्तशास्त्रे ५.८ शिपयः रश्मयः सन्ति, अयं कथनमस्ति। काशकृत्स्न धातुकोशे शिपृ धातुः क्षरणे अर्थे अस्ति। रश्मीनां शोधनं विष्णुः केन प्रकारेण कर्तुं शक्यते। अस्मिन् संदर्भे आधुनिकभौतिकविज्ञानस्य लेजरसंज्ञकानां रश्मीनां उल्लेखं समीचीनं अस्ति। लेजररश्मीनां संघननं संभवमस्ति, तेषां दूरप्रेषणं संभवमस्ति। तैत्तिरीयब्राह्मणे १.३.३.६ सोमग्रहस्य संदर्भे कथनमस्ति – संपृचः स्थ सं मा भद्रेण पृङ्क्त। सुराग्रहस्य संदर्भे कथनमस्ति – विपृचः स्थ वि मा पाप्मना पृङ्क्त।  अत्र संपृचः – विपृचः शब्दयोः व्याख्या लेजर एवं सामान्य रश्मीनां आधारे कर्तुं शक्यन्ते।  

महाभारत शान्तिपर्वे ३४२.७१ शिपिविष्टशब्दस्य निरुक्तिः हीनरोमा इति अस्ति। सोमयागे यः दीक्षाकृत्यं भवति, तत्र देहस्य सर्वेषां लोम्नां वपनं भवति। अयं हीनरोमा स्थितिः अस्ति। आधुनिकचिकित्साविज्ञाने कैंसरचिकित्सायामपि हीनरोमा स्थितिः भवति। कारणं – कोशिकानां विभाजनं अस्थायी रूपेण स्तम्भितः भवति। शिपिवेष्टनस्य कृत्यं   वाजपेययागस्य तृतीयसवने भवति। यदा सोमस्य अतिरेकं तृतीयसवनाद् अपि अतिरिच्यते, तदा अस्य परिहाराय शिपिवेष्टनस्य आवश्यकता भवति। येषां विचाराणां आविर्भावः भवति, तेषामपि संज्ञा रश्मिः अस्ति। पुराणेषु शिबिराज्ञः शिपिशब्देन किं तादात्म्यमस्ति, अयं अन्वेषणीयः।

आङ्ग्लभाषायां अविः शब्दस्य संज्ञा शीप (sheep) अस्ति। वैदिकवाङ्मये यदा सूर्यस्य आविर्भावः भवति, रूपं गृह्णाति, अस्य प्रतीकः अविः अस्ति। अवेः - प्राक् स्थितिः, सूर्यस्य अनिरुक्ता स्थितिः अजः भवति (छान्दोग्योपनिषत्)। किं शीप शब्दस्य मूलं शिपृ धातुः अस्ति, अन्वेषणीयम्।

शिपिवेष्टनस्य कृत्यं   वाजपेययागस्य तृतीयसवने भवति। वाजपेययागस्य वैशिष्ट्यं व्यावहारिकजीवने सोमस्य एवं सुरायाः युगपत् ग्रहणमस्ति। वाजपेयसंज्ञकस्य (किमित्ते विष्णो इति) स्तोत्रस्य अनन्तरं प्राजापत्यग्रहस्य प्रचारः भवति यत्र सोमग्रहाणां एवं सुराग्रहाणां व्यतिषजनं भवति। व्यतिषजनं अर्थात् स्थानपरिवर्तनं?  सोमग्रहाः हविर्धानस्य पूर्वाक्षे स्थापिताः भवन्ति, सुराग्रहाः पश्चात्।

 

संदर्भाः

१. तृतीयसवने सोमातिरेके प्रायश्चित्तं - - यदि तृतीयसवनादतिरिच्येत विष्णोः शिपिविष्टवतीषु गौरीवितेन स्तुयुः यज्ञो वै विष्णुश्शिपिविष्टो यज्ञ एव विष्णौ प्रतितिष्ठत्यतिरिक्तं गौरीवितमतिरिक्त एवातिरिक्तं दधाति। तां , , १०; काश ३, , , ३ ।

यदि प्रातस्सवने कलशो दीर्येत वैष्णवीषु शिपिविष्टवतीषु माध्यन्दिने पवमाने स्तुयुर्यद्वै यज्ञस्यातिरिच्यते विष्णुं तच्छिपिविष्टमभ्यतिरिच्यतेऽतिरिक्तं वा एतदतिरिक्तँ शिपिविष्टमतिरिक्तेनैवातिरिक्तमाप्नोति । --काठ ३४,

३. ऽथ यद्विष्णवे शिपिविष्टायेति यज्ञो वै विष्णुरथ यच्छिपिविष्टायेति यमुपैप्सीत्तमपारात्सीत्तच्छिपितमिव यज्ञस्य भवति तस्माच्छिपिविष्टायेति । माश ११, ,,

अभ्य् उदेति त्रेधा तण्डुलान् वि भजेद् ये मध्यमाः स्युस् तान् अग्नये दात्रे पुरोडाशम् अष्टाकपालं कुर्याद् ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधश् चरुम् । ये ऽणिष्ठास् तान् विष्णवे शिपिविष्टाय शृते चरुम् – तैसं २.५.५.२

यावान् एव पशुस् तस्याव द्यति विष्णवे शिपिविष्टाय जुहोति यद् वै यज्ञस्यातिरिच्यते यः पशोर् भूमा या पुष्टिस् तद् विष्णुः शिपिविष्टः । - तैसं ३.४.१.४

४.  वरुण उपनद्धः । असुरः क्रीयमाणः । मित्रः क्रीतः शिपिविष्ट आसादितः । नरंधिषः प्रोह्यमाणः । तैसं , ,,

५. न्दाँसि मीयमानो वरुण उपनद्धः पूषा सोमक्रयण्यां भगः पण्यमानोऽसुरः क्रीतश्शिपिविष्ट ऊरा आसाद्यमानो बृहस्पतिरुत्थितो। काठ ३४, १४

विष्णवे शिपिविष्टाय त्र्युद्धौ घृते चरुं निर्वपेत् , यद्विष्णवे , विष्णुर्वै यज्ञो , यज्ञं एवालब्ध , यच् शिपिविष्टं , पशवो वै शिपिविष्टं , पशून् एवावरुन्द्धे , यत् त्र्युद्धौ , त्रयो वा इमे लोका , इमान् एव लोकानाप्नोति , यद् घृते , तेजो वै घृतं , तेज एवावरुन्द्धे – मै १.६.८,

अतिरिक्तयज्ञो ह वा एषः(वाजपेयः)। अतिरिक्तो वै प्रजापतिः। प्राजापत्य एष यज्ञः। प्रजापतेर् एवाप्त्यै। तस्य बृहच् छिपिविष्टवती भवति। पशवो वै शिपिविष्टाः। क्षत्रं बृहत्। क्षत्रियस्यो अयं लोकः।जै २.१९२

यस्य सान्नाय्यं चन्द्रमा अभ्युदियाद् ये पुरोडाश्याः स्युस् तांस्त्रेधा कुर्यात् , ये मध्यमास्तमग्नये दात्रेऽष्टाकपालं निर्वपेत् , ये स्थविष्ठास्तमिन्द्राय प्रदात्रे दधंश्चरुम् , ये क्षोदिष्ठास्तं विष्णवे शिपिविष्टाय शृते चरुम् , अग्निर्वै मध्यमस्य दाता , इन्द्रो ज्येष्ठस्य प्रदाता , अथ यत् क्षोदिष्ठं तच् शिपिविष्टं , तदाप्नोति, पशून् एव, सोमो वा एतस्यातिरिच्यते यस्य सान्नाय्यं चन्द्रमा अभ्युदेति, स वै पशून् एवाभ्यतिरिच्यते, यः पशुकामः स्यात् सोऽमावास्यामिष्ट्वा वत्सानपाकुर्यात् , ये पुरोडाश्याः स्युस् तांस्त्रेधा कुर्यात् , ये क्षोदिष्ठास्तमग्नये सनिमतेऽष्टाकपालं निर्वपेत् , ये मध्यमास्तं विष्णवे शिपिविष्टाय शृते चरुम् , ये स्थविष्ठास्तमिन्द्राय प्रदात्रे दधंश्चरुम् - मै २.२.१३

वाजपेयः -- एषा वै प्रजापतेः पशुष्ठास्तनूर्यञ् शिपिविष्टं , तस्माञ् शिपिविष्टवतीषु स्तुवत – मै १.११.९,

वैष्णवीषु शिपिविष्टवतीषु स्तुवन्त्येषा वै प्रजापतेः पशुष्टास्तनूर्या शिपिविष्टवती तस्माच्छिपिविष्टवतीषु स्तुवन्त्यतिरिक्तं वा एतदतिरिक्तँ शिपिविष्टमतिरिक्तेनैवातिरिक्तमाप्नोति ।। - काठ १४.१०

विष्णोः शिपिविष्टवतीषु बृहदुत्तमं भवति एषा वै प्रजापतेः पशुष्ठा तनूर्यच्छिपिविष्टः प्राणो वै बृहत् प्राण एव पशुषु प्रतितिष्ठति- तां १८.६.२६

अनिरुक्ताभिः प्रातःसवने स्तुवते । अनिरुक्तः प्रजापतिः । प्रजापतेराप्त्यै । वाजवतीभिर्माध्यन्दिने । अन्नं वै वाजः । अन्नमेवावरुन्धे । शिपिविष्टवतीभिस्तृतीयसवने । यज्ञो वै विष्णुः । पशवः शिपिः । यज्ञ एव पशुषु प्रतितिष्ठति । बृहदन्त्यं भवति ।--तै  १.३.८.५

शिपिविष्टवतीषु कुर्वन्ति शिपिविष्टो वै देवानां पुष्टं ।पुष्ट्यैवैन समर्धयन्ति । - तैब्रा १.४.५.४

शैत्यात् शयनयोगाच्च शिपि वारि प्रचक्षते । तत्पानाद्रक्षणाच्चैव शिपयो रश्मयो मताः । तेषु प्रवेशात् विश्वेशः शिपिविष्ट इहोच्यते ॥ - शब्दकल्पद्रुमः

किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि ।
मा वर्पो अस्मदप गूह एतद् यदन्यरूपः समिथे बभूथ ॥
किं ते विष्णोऽप्रख्यातमेतद्भवत्यप्रख्यापनीयं यन्नः प्रब्रूषे शेप इव निर्वेष्टितोऽस्मीत्यप्रतिपन्नरश्मिः । अपि वा प्रशंसानामैवाभिप्रेतं स्यात् । किं ते विष्णो प्रख्यातमेतद्भवति प्रख्यापनीयं यदुत प्रब्रूषे शिपिविष्टोऽस्मीति प्रतिपन्नरश्मिः । शिपयोऽत्र रश्मय उच्यन्ते । तैराविष्टो भवति । मा वर्पो अस्मदप गूह एतत् । वर्प इति रूपनाम । वृणोतीति सतः । यदन्यरूपः समिथे संग्रामे भवसि संयतरश्मिः । तस्योत्तरा भूयसे निर्वचनाय ५.८- निरुक्तः ५.८

प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ।
तं त्वा गृणामि तवसमतव्यान्क्षय॑न्तमस्य रज॑सः पराके ॥
तत्तेऽद्य शिपिविष्ट नामार्यः प्रशंसामि । अर्योऽहमस्मीश्वरः स्तोमानाम् । अर्यस्त्वमसीति वा । तं त्वा स्तौमि तवसमतव्यान् । तवस इति महतो नामधेयम् । उदितो भवति । निवसन्तमस्य रजसः । पराके पराक्रान्ते । - निरुक्तः ५.९