पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Shamku - Shtheevana)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

 

Shamku -  Shankushiraa  ( words like Shakata/chariot, Shakuna/omens, Shakuni, Shakuntalaa, Shakti/power, Shakra, Shankara, Shanku, Shankukarna etc. )

Shankha - Shataakshi (Shankha, Shankhachooda, Shachi, Shanda, Shatadhanvaa, Shatarudriya etc.)

Shataananda - Shami (Shataananda, Shataaneeka, Shatru / enemy, Shatrughna, Shani / Saturn, Shantanu, Shabara, Shabari, Shama, Shami etc.)

Shameeka - Shareera ( Shameeka, Shambara, Shambhu, Shayana / sleeping, Shara, Sharada / winter, Sharabha, Shareera / body etc.)

Sharkaraa - Shaaka   (Sharkaraa / sugar, Sharmishthaa, Sharyaati, Shalya, Shava, Shasha, Shaaka etc.)

Shaakataayana - Shaalagraama (Shaakambhari, Shaakalya, Shaandili, Shaandilya, Shaanti / peace, Shaaradaa, Shaardoola, Shaalagraama etc.)

Shaalaa - Shilaa  (Shaalaa, Shaaligraama, Shaalmali, Shaalva, Shikhandi, Shipraa, Shibi, Shilaa / rock etc)sciple, Sheela, Shuka / parrot etc.)

Shilaada - Shiva  ( Shilpa, Shiva etc. )

Shivagana - Shuka (  Shivaraatri, Shivasharmaa, Shivaa, Shishupaala, Shishumaara, Shishya/de

Shukee - Shunahsakha  (  Shukra/venus, Shukla, Shuchi, Shuddhi, Shunah / dog, Shunahshepa etc.)

Shubha - Shrigaala ( Shubha / holy, Shumbha, Shuukara, Shoodra / Shuudra, Shuunya / Shoonya, Shoora, Shoorasena, Shuurpa, Shuurpanakhaa, Shuula, Shrigaala / jackal etc. )

Shrinkhali - Shmashaana ( Shringa / horn, Shringaar, Shringi, Shesha, Shaibyaa, Shaila / mountain, Shona, Shobhaa / beauty, Shaucha, Shmashaana etc. )

Shmashru - Shraanta  (Shyaamalaa, Shyena / hawk, Shraddhaa, Shravana, Shraaddha etc. )

Shraavana - Shrutaayudha  (Shraavana, Shree, Shreedaamaa, Shreedhara, Shreenivaasa, Shreemati, Shrutadeva etc.)

Shrutaartha - Shadaja (Shruti, Shwaana / dog, Shweta / white, Shwetadweepa etc.)

Shadaanana - Shtheevana (Shadaanana, Shadgarbha, Shashthi, Shodasha, Shodashi etc.)

 

 

चतुर्दन्त (हस्ती) शश कथा (काकोलूकीयम्, कथा 1)

अवर्षणकाले हस्तिनः यस्मिन् हृदे जलं पातुं गच्छन्ति, तेषां गमनेन शशकानां हिंसा भवति। कारणं, ह्रदस्य समीपे भूम्यां शशकानां  बिलाः सन्ति। तदा दूतरूपः दीर्घकर्णसंज्ञकः एकः शशः  हस्तिनां राजानं चतुर्दन्तं सन्देशं ददाति यत् भूम्योपरि वर्तमानानां शशकानां स्वामी चन्द्रः एव अस्ति एवं चन्द्रः वांछति यत् हस्तिनः ह्रदे जलं पातुं न गमयेयुः। सः कथयति यत् शशकानां रक्षणं हेतु इदानीं चन्द्रमा भूम्योपरि एव वर्तमानः अस्ति। चतुर्दन्तः चन्द्रमसः स्वयं दर्शनं करोतुं इच्छति। दीर्घकर्णः कथयति यत् इदानीं चन्द्रमा अस्मिन् ह्रदे वसति। यदा चतुर्दन्तः ह्रदस्य जले पश्यति, तदा तत्र आकाशे वर्तमानस्य चन्द्रमसः छायां पश्यति। सः सन्तुष्टः भवति एवं  ह्रदे हस्तिनां आवागमनं निषेधयति।

संसारे वयं प्रत्येक घटनातः असंतुष्टाः भवामः, अतः प्रत्येक स्थले स्वं मनः प्रेषयामः - यदि वयं तत्र विद्यमानाः भवामः, तदा अवश्यमेव सुधारं करिष्यामः। अस्य कथनस्य अन्य रूपमस्ति यत् संसारे प्रत्येक ह्रदस्य वयं जलं पिबामः। पुराणेषु सुदर्शन द्वीपस्य द्वि भागाः सन्ति – शशः एवं पिप्पलः। शशस्य सर्वश्रेष्ठ रूपं चन्द्रमसे भवति। यत्किंचित् पृथिव्यामुपरि श्रेष्ठतमं अस्ति, तत्र चन्द्रमसि गमयित्वा कृष्णः शशः भवति। पृथिव्यामुपरि ये केचन श्रेष्ठाः रूपाः दृश्यन्ते, ते तस्य शशस्य छाया एव सन्ति। पिप्पलस्य कार्यं भावी घटनायाः संशोधनं भवति। किन्तु यदा सुदर्शनस्य चक्षूंषि प्राप्तानि भवन्ति, तदा सर्वं गणितं परिवर्तितं भवति। अस्मिन् कथायां चक्षुः न अस्ति, कर्णः अस्ति – दीर्घकर्णः, श्रवणशक्ति, विचारशक्ति। अस्माकं मध्ये प्रत्येकं जनः पृच्छति यत् ईश्वरस्य अस्मिन् पृथिव्योपरि कः प्रमाणः अस्ति। यदा वयं सुदर्शनस्य स्थितिं लभामः, तदैव ईश्वरस्य प्रमाणं अपि लभामः। तत् प्रमाणं केवलं छायामात्रमेव भविष्यति। पुरातनकाले ईश्वरस्य प्रमाणस्य प्रस्तुतीकरणं सुगमं अभवत्, किन्तु आधुनिक काले यत् – यत् प्रमाणं दीयते, तत्र – तत्र विज्ञानस्य तर्कः तस्य खण्डनम् करिष्यति। प्रत्येक जनः ईश्वरस्य छायां गृहीतुं स्व पुरुषार्थेन एव समर्थं भवितुं शक्नोति। अन्यथा सः यावज्जीवनं नास्तिक एव वर्तिष्यति। यदा प्रत्येक घटना मध्ये तस्य छायां पश्यामः, तदा चिन्तनीयं अस्ति यत् यत्किंचित् अस्मिन् संसारे अस्माकं परितः घटितमस्ति, तत् ईश्वरस्य सर्वश्रेष्ठ कृतिः अस्ति। घटना मध्ये अस्माकं हस्तक्षेपः,  पुरुषार्थं अथवा उत्कोचप्रदानं अनुचितं अस्ति। घटनायाः परिवर्तनस्य इच्छा पिप्पलं, अथवा पञ्चतन्त्रस्य कथानुसारेण हस्ती अस्ति। पृथिव्योपरि  छाया रूपा ये शशाः सन्ति, तेपि पोषणीयाः।

     पुराणेषु द्विप्रकाराणां हस्तिनां उल्लेखमस्ति – चतुर्दन्त गजः एवं षडदन्त गजः। चतुर्दन्त गजः रथन्तरस्य साम्नः प्रतिनिधिरस्ति एवं षड्दन्तः बृहत्साम्नस्य। रथन्तरेण पृथिव्याः ऊर्जायाः शोधनं कृत्वा तां चन्द्रमसि स्थापयन्ति। बृहत्साम्ना चन्द्रस्य ऊर्जायाः स्थापनं पृथिव्योपरि भवति।

वराह पुराणे ३६.४(त्रेतायुग में सुरश्मि के शशकर्ण रूप में उत्पन्न होने का उल्लेख)) शशकर्णस्य सुरश्मेः  रूपं उल्लेखः भवति। किं अयं संकेतं भवति यत् शश अवस्थायां यत्किंचित् विचारः अस्मत्तः उद्भविष्यति, तत् सर्वकल्याणात्मकमेव – सर्वे भवन्तु सुखिनः भविष्यति? सर्वमंगलकामना। विष्णुधर्मोत्तर पुराणे(3.37.12) श्रेष्ठ चक्षुरूपेण उत्पलस्य, पद्मस्य, चापाकार नेत्राणां उल्लेखं अस्ति एवं श्रेष्ठ आकृति रूपेण शशाकृतेः उल्लेखं अस्ति। न स्पष्टं यदि अयं परोक्षरूपेण कर्णस्यापि उल्लेखं अस्ति वा न। पंचतन्त्रे दीर्घकर्ण नामक शशः शशानां दूतः भवति।

वैदिक मन्त्राभ्यां वयं किं गृह्णीमः –

1.     वैदिक मन्त्रेषु बहुधा प्रयुक्त शब्दः शशयानः अस्ति। अर्थात् शशः कोपि स्थिरा स्थिति नास्ति, अपितु साधनायां सतत् प्रगतेः स्थितिरस्ति।

2.     शशयानः अवस्थातः शमी अवस्था प्राप्यन्ते। पुराणेषु प्रसिद्धमस्ति यत् अरणिमन्थने अधरारणिः शमीकाष्ठस्य भवति, उपरारणिः अश्वत्थस्य। अश्वत्थमेव पिप्पलः उच्यते। अश्वत्थस्य विषये अयं प्रसिद्धं यत् अयं सर्वकालेषु कम्पते। अर्थात् स्थिरं नास्ति। अरणिमन्थनेन शमी अवस्थायां  क्षोभस्य उत्पत्तिं कुर्वन्ति। तदा विशिष्ट रूपस्य धारणात्मकः अग्निः उत्पद्यते यत् अतिथिः अपि कथ्यते। अयं अग्निः अस्माकं बुद्धितः अतिरिक्तं शक्तिरस्ति। पञ्चतन्त्रस्य कथा अरणिमन्थनस्य निषेधं करोति। अस्य किं कारणं भवितुं शक्यते? यावत् शश अवस्था पक्वं भवति, तावत् अस्मिन् क्षोभं न जनयेयम्। अयं संवत्सर-साधनातः पक्वं भवति। शमी अर्थात् न्यून अव्यवस्थायाः स्थितिः, न्यूनतर एण्ट्रांपी।

3.     जैमिनीय ब्राह्मण 1.28 संदर्भः कथयति यत् सैव शश स्थितिः प्रशंसनीयः यः अस्माकं जीवनस्य यमनम् अपि कर्तुं शक्यते।

संदर्भ

,०२४.०३  अभि त्वा देव सवितरीशानं वार्याणाम् ।

,०२४.०३ सदावन्भागमीमहे ॥

,०२४.०४  यश्चिद्धि त इत्था भगः शशमानः पुरा निदः ।

,०२४.०४ अद्वेषो हस्तयोर्दधे ॥

,०८५.१२  या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि ।

,०८५.१२ अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् ॥

,०८६.०८  शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।

,०८६.०८ विदा कामस्य वेनतः ॥

,११३.२०  यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम् ।

,११३.२० तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

,१४१.१०  त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि ।

,१४१.१० तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि ॥

,१४२.०२  घृतवन्तमुप मासि मधुमन्तं तनूनपात् ।

,१४२.०२ यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥

,१५१.०७  यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः ।

,१५१.०७ उपाह तं गच्छथो वीथो अध्वरमच्छा गिरः सुमतिं गन्तमस्मयू ॥

,१६४.४९  यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि ।

,१६४.४९ यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे कः ॥

,०१२.१४  यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती ।

,०१२.१४ यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥

,०२०.०३  स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता ।

,०२०.०३ यः शंसन्तं यः शशमानमूती पचन्तं च स्तुवन्तं च प्रणेषत् ॥

,०१८.०४  उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि ।

,०१८.०४ रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं भूरि कृत्वः ॥

,०५५.१६  आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः ।

,०५५.१६ नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम् ॥

,०५७.०२  इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे ।

,०५७.०२ विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः सुम्नमश्याम् ॥

,००२.०९  यस्तुभ्यमग्ने अमृताय दाशद्दुवस्त्वे कृणवते यतस्रुक् ।

,००२.०९ न स राया शशमानो वि योषन्नैनमंहः परि वरदघायोः ॥

,००२.१३  त्वमग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ ।

,००२.१३ रत्नं भर शशमानाय घृष्वे पृथु श्चन्द्रमवसे चर्षणिप्राः ॥

,०१६.१५  इन्द्रं कामा वसूयन्तो अग्मन्स्वर्मीळ्हे न सवने चकानाः ।

,०१६.१५ श्रवस्यवः शशमानास उक्थैरोको न रण्वा सुदृशीव पुष्टिः ॥

,०२२.०८  पिपीळे अंशुर्मद्यो न सिन्धुरा त्वा शमी शशमानस्य शक्तिः ।

,०२२.०८ अस्मद्र्यक्छुशुचानस्य यम्या आशुर्न रश्मिं तुव्योजसं गोः ॥

,०२३.०४  कथा सबाधः शशमानो अस्य नशदभि द्रविणं दीध्यानः ।

,०२३.०४ देवो भुवन्नवेदा म ऋतानां नमो जगृभ्वां अभि यज्जुजोषत् ॥

,०३१.०८  उत स्मा सद्य इत्परि शशमानाय सुन्वते ।

,०३१.०८ पुरू चिन्मंहसे वसु ॥

,०४१.०३  इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस्ता ।

,०४१.०३ यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते ॥

,०५१.०७  ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः ।

,०५१.०७ यास्वीजानः शशमान उक्थै स्तुवञ्छंसन्द्रविणं सद्य आप ॥

,०२९.१२  नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्यर्चन्त्यर्कैः ।

,०२९.१२ गव्यं चिदूर्वमपिधानवन्तं तं चिन्नरः शशमाना अप व्रन् ॥

,०४२.१०  य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात ।

,०४२.१० यो वः शमीं शशमानस्य निन्दात्तुच्छ्यान्कामान्करते सिष्विदानः ॥

,००१.०९  सो अग्न ईजे शशमे च मर्तो यस्त आनट्समिधा हव्यदातिम् ।

,००१.०९ य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः ॥

,००२.०४  ऋधद्यस्ते सुदानवे धिया मर्तः शशमते ।

,००२.०४ ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥

,००३.०२  ईजे यज्ञेभिः शशमे शमीभिर्ऋधद्वारायाग्नये ददाश ।

,००३.०२ एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न प्रदृप्तिः ॥

,१०३.०१  संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।

,१०३.०१ वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥

,०५४.०८  वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो ।

,०५४.०८ महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशय ॥

,०६६.०२  न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रमन्धसः ।

,०६६.०२ य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥

,१०१.०१  ऋधगित्था स मर्त्यः शशमे देवतातये ।

,१०१.०१ यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये ॥

१०,०६४.१०  उत माता बृहद्दिवा शृणोतु नस्त्वष्टा देवेभिर्जनिभिः पिता वचः ।

१०,०६४.१० ऋभुक्षा वाजो रथस्पतिर्भगो रण्वः शंसः शशमानस्य पातु नः ॥

१०,०९२.०६ तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिरर्वशेभिरर्वशः ॥

१०,०९२.०७  इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश्च पौंस्ये ।

१०,१४२.०६  उत्ते शुष्मा जिहतामुत्ते अर्चिरुत्ते अग्ने शशमानस्य वाजाः ।

१०,१४२.०६ उच्छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ॥

 

एष वै शशो य एषो ऽन्तश् चन्द्रमसि। एष हीदं सर्वं शास्ति। एष वै यमो य एषो ऽन्तश् चन्द्रमसि। एष हीदं सर्वं यमिति। एष मृत्युर् यद् यमो ऽत्स्यन्न् एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वोर्जं लोकानां जयति यमं देव देवानाम्। यमस्य देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥ जै.ब्रा. 1.28॥

द्वादशाहे पूर्णिमा – अमावास्यानां उत्सर्जनस्य प्रश्नम् ---   तद् उ होवाचारुणिर् अषाढं सावयसम् उत्सृजानं - होता छिद्रे संवत्सर आस्त इति। स होवाच - मा न एवं ब्रवीर्, उप वै वयं तम् उपरिष्टाद् द्वादशरात्रम् ऐमेति। तं ह तद् उपजगौ --

     ज्यायो वा हि कनीयो वा न हि वा तेन तत् समम्।

     कपालम् अन्यथा सत्य् अछिद्र उपधीयते॥

इति वा अहम् एतद् धोतुर् मन्ये। छिद्रं वा अहं तेषां संवत्सरं मन्य् य उत्सृजन्ते। अथो हैषां तद् अन्यथेव सत्रम् उपेतं भवति। यथा वै शश एवं यज्ञः। यो वै शशम् उत्सर्गं लिप्सते, नैनं स गृह्णाति। अथ य एनम् अनुत्सर्गं लिप्सते, स एवैनं गृह्णाति। उत्सर्गम् एवैतल् लिप्सन्ते य उत्सृजन्ते। तस्मान् नैवोत्सृज्यम् इति॥जै.ब्रा. 2.395॥

तां प्रतिमार्ष्टि । देवा ह वै संग्रामं संनिधास्यन्तस्ते होचुर्हन्त यदस्यै पृथिव्या अनामृतं देवयजनं तच्चन्द्रमसि निदधामहै स यदि न इतोऽसुरा जयेयुस्तत एवार्चन्तः श्राम्यन्तः पुनरभिभवेमेति स यदस्यै पृथिव्या अनामृतं देवयजनमासीत्तच्चन्द्रमसि न्यदधत तदेतच्चन्द्रमसि कृष्णं तस्मादाहुश्चन्द्रमस्यस्यै पृथिव्यै देवयजनमित्यपि ह वा अस्यैतस्मिन्देवयजन इष्टं भवति तस्माद्वै प्रतिमार्ष्टि – मा.श. १.२.५.[१८]

१.२.५.[१९]

स प्रतिमार्ष्टि । पुरा क्रूरस्य विसृपो विरप्शिन्निति संग्रामो वै क्रूरं संग्रामे हि क्रूरं क्रियते हतः पुरुषो हतोऽश्वः शेते पुरा ह्येतत्संग्रामान्न्यदध तस्मादाह पुरा क्रूरस्य विसृपो विरप्शिन्नित्युदादाय पृथिवीं जीवदानुमित्युदादाय हि यदस्यै पृथिव्यै जीवमासीत्तच्चन्द्रमसि न्यदधत तस्मादाहोदादाय पृथिवीं जीवदानुमिति यामैरयंश्चन्द्रमसि स्वधाभिरिति यां चन्द्रमसि ब्रह्मणादधुरित्येवैतदाह तामु धीरासो अनुदिश्य यजन्त इत्येतेनो ह तामनुदिश्य यजन्तेऽपि ह वा अस्यैतास्मिन्देवयजन इष्टं भवति य एवमेतद्वेद

 

 

चतुर्दन्त (हस्ती) शश कथा (काकोलूकीयम्, कथा 1)

अवर्षण काल में हस्ती जिस ह्रद में पानी पीने जाते हैं, वहां उनके गमन से शशकों की हिंसा होती है। इसका कारण यह है कि ह्रद के समीप भूमि में शशकों के बिल हैं। तब दीर्घकर्ण नामक एक शश हस्तियों के राजा चतुर्दन्त को संदेश देता है कि भूमि के ऊपर वर्तमान शशकों का स्वामी भी चन्द्रमा ही है तथा कि चन्द्रमा चाहता है कि हस्ती ह्रद पर जलपान करने के लिए न आएं।वह कहता है कि शशकों के रक्षण हेतु इस समय चन्द्रमा भूमि पर ही विद्यमान है। चतुर्दन्त हस्ती स्वयं चन्द्रमा के दर्शन करना चाहता है। दीर्घकर्ण कहता है कि इस समय चन्द्रमा का इस ह्रद में वास है। जब चतुर्दन्त हस्ती ह्रद के जल में झांकता है, तब वहां आकाश में स्थित चन्द्रमा की छाया देखता है। वह सन्तुष्ट हो जाता है एवं ह्रद में हस्तियों के आवागमन का निषेध कर देता है।

     संसार में हम प्रत्येक घटना से असंतुष्ट रहते हैं, अतः प्रत्येक घटनास्थल पर अपने मन को भेजते हैं। सोचते हैं कि यदि मैं उस घटनास्थल पर होता तो अवश्य सुधार करता। इस तथ्य का अन्य रूप यह है कि संसार में हम प्रत्येक ह्रद का जल पीते हैं। पुराणों में सुदर्शन द्वीप के दो भाग हैं- शश एवं पिप्पल। शश का सर्वश्रेष्ठ रूप चन्द्रमा है। जो कुछ भी पृथिवी के ऊपर श्रेष्ठतम है,वह चन्द्रमा में जाकर कृष्ण शश बन जाता है। पृथिवी के ऊपर जो भी श्रेष्ठ रूप हैं, वह उस शश की छाया ही हैं। पिप्पल का कार्य प्रत्येक घटना का संशोधन करना है, जैसी कि हमारी मनःस्थिति प्रत्येक घटना का संशोधन चाहती है। लेकिन जब सुदर्शन के चक्षु प्राप्त होते हैं, तब सारा गणित परिवर्तित हो जाता है। इस कथा में चक्षु नहीं, कर्ण हैं – दीर्घकर्ण, श्रवण शक्ति, विचार शक्ति। हममें से प्रत्येक जन यह पूछता है कि ईश्वर का इस पृथिवी पर क्या प्रमाण है। जब हम सुदर्शन की स्थिति प्राप्त करते हैं, तभी ईश्वर का प्रमाण भी मिल जाता है। वह प्रमाण केवल छायामात्र ही हो सकता है। प्राचीनकाल में ईश्वर का प्रमाण देना सुगम था, किन्तु आधुनिक काल में तो जो – जो प्रमाण दिया जाएगा, वह – वह विज्ञान के तर्कों से खण्डित होता जाएगा। प्रत्येक व्यक्ति ईश्वर की छाया को ग्रहण करने के लिए अपने पुरुषार्थ से ही समर्थ हो सकता है। अन्यथा यावज्जीवन नास्तिक ही बना रहेगा। जब प्रत्येक घटना में वह उसकी छाया देखता है,तभी वह सोचता है कि इस संसार में उसके परितः जो कुछ घटित होता है, वह उसके हेतु ईश्वर की सर्वश्रेष्ठ कृति है। घटना में उसका हस्तक्षेप अनुचित है, उसका पुरुषार्थ या घूस प्रदान करना अनुचित है। पृथिवी पर छाया रूपी जो शश हैं, वह भी पोषणीय हैं ।

     वराह पुराण ३६.४ में त्रेतायुग में सुरश्मि के शशकर्ण रूप में उत्पन्न होने का उल्लेख है। क्या यह संकेत देता है कि शश अवस्था में जिस किसी भी विचार का उदय हमारे भीतर से होगा, वह सर्वकल्याणात्मक ही होगा – सर्वे भवन्तु सुखिनः। सर्वमंगलकामना। विष्णुधर्मोत्तर पुराण 3.37.12 में श्रेष्ठ चक्षु के रूप में उत्पल, पद्म, चापाकार नेत्रों का उल्लेख है एवं श्रेष्ठ आकृति के रूप में शशाकृति का उल्लेख है। यह स्पष्ट नहीं है कि यह कर्ण का उल्लेख है या नहीं। पंचतन्त्र में दीर्घकर्ण नामक शश शशों का दूत है।

वैदिक मन्त्रों से हम क्या ग्रहण कर सकते हैं –

1.     वैदिक मन्त्रों में बहुधा प्रयुक्त शब्द शशयानः है। अर्थात् शश कोई स्थिर स्थिति नहीं है,अपितु साधना में सतत् प्रगति की स्थिति है।

2.     शशयानः अवस्था से शमी अवस्था प्राप्त होती है। पुराणों में प्रसिद्ध है कि जब अरणिमन्थन में अधरारणि शमीकाष्ठ की होती है तो उपरि अरणि अश्वत्थ की होती है। अश्वत्थको ही पिप्पल कहते हैं। अश्वत्थ के विषय में यह प्रसिद्ध है कि यह सर्वदा कांपता रहता है। अर्थात् स्थिर नहीं है। अरणिमन्थन द्वारा शमी अवस्था के मध्य में क्षोभ की उत्पत्ति करते हैं। तब विशेष रूप धारण करने वाली अग्नि का जन्म होता है जिसे अतिथि भी कहते हैं। यह अग्नि हमारी बुद्धि की अतिरिक्त शक्ति है। पंचतन्त्र की कथा अरणिमन्थन का निषेध करती है। इसका क्या कारण हो सकता है। सम्भव उत्तर यह हो सकता है- जब तक शश अवस्था पक न जाए, तब तक इसमें क्षोभ उत्पन्न नहीं करना चाहिए। यह संवत्सर साधना द्वारा पकता है। शमी अर्थात् न्यून अव्यवस्था वाली स्थिति, न्यूनतर एण्ट्रांपी।

3.     जैमिनीय ब्राह्मण 1.28 का कथन कहता है कि वह शश स्थिति ही प्रशंसनीय है जो हमारे जीवन का यमन करने में भी समर्थ हो।