पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (Shamku - Shtheevana) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
शर्करा – पृथिव्योपरि शर्करासंज्ञकस्य द्रव्यस्य परिचयस्य आवश्यकता नास्ति। जीवस्य प्रियतमः द्रव्यः अस्ति। प्रश्नः अस्ति – शर्करातः अपि प्रियतरः किमस्ति। उत्तरः – प्रेम। तैत्तिरीयब्राह्मणे १,१, ३,७ शर्करायाः निरुक्तिः शं वै नोऽभूदिति तच्छर्कराणाꣳ शर्करत्वम् – इति कृतं अस्ति। आधुनिकविज्ञानानुसारेण यदा सूर्यस्य रश्मीनां पतनं पादपस्य पत्रोपरि भवति, तदा पत्रे विद्यमानः क्लोरोप्लास्टसंज्ञकः रसायनः कार्बनडाईआक्साईड एवं जलस्य संयोजनं कृत्वा शर्करायाः (ग्लूकोजस्य) निर्माणं करोति। निर्माणानन्तरं पादपः अस्य स्थान्तरणं स्वदेहस्य अन्येषु अंगेषु करोति यत्रायं स्टार्चरूपेण संगृहीता भवति। स्टार्चस्य जाटिल्यं सैलूलोजआदिकेषु द्रव्येषु भवति। सैलूलोजः पादपस्य कोशिकायाः बाह्या भित्त्याः एवं काष्ठस्य निर्माणं करोति। अयं जीवनरहितः अस्ति। पृथिव्योपरि ये जीवसंज्ञकाः जीवाः सन्ति, तेषु सूर्यस्य रश्मिभ्यः शर्करायाः संपादनस्य सामर्थ्यं नास्ति। स्वजीवनस्य धारणार्थं ते पादपसंगृहीतस्य स्टार्चस्य उपयोगं कुर्वन्ति। तेषां जठरे स्टार्चस्य रूपान्तरणं शर्करायां भवति, शर्करायाः ग्लाइकोजने। अस्य ग्लाइकोजनस्य संग्रहणं मुख्यरूपेण यकृते एवं पेशीषु भवति। मनुष्यस्य देहे यकृतस्य भारं १ – १.५ किलोग्रामः भवति यस्मिन् ग्लाईकोजनस्य मात्रा १०० ग्रामः भवति। पेशीषु ग्लाईकोजनस्य मात्रा ५०० ग्रामः भवति। किन्तु रक्तमध्ये या शर्करा विद्यमाना अस्ति, तस्य स्रोतः यकृत एव अस्ति, न पेशी। अयं प्रतीयते यत् सर्वेषां पशूनां देहे ग्लाईकोजनस्य संग्रहणस्य अयमेव अनुपातः अस्ति। पशूनां देहे यदा श्वासगृहीतेन आक्सीजनेन शर्करायाः अणोः विघटनं भवति, तदा ऊष्मणः अल्पमात्रायां जननं भवति। अयं ऊष्मा सर्वस्य देहस्य शक्त्याः एकमात्रस्रोतः अस्ति। देहे शर्करायाः ग्लाईकोजने यः रूपान्तरणं भवति, तत् रूपान्तरणं इन्सुलिनसंज्ञकेन रसायनेन भवति। इन्सुलिनस्य जननं अग्न्याशये ( पेंक्रियस) भवति। उल्लेखः अस्ति यत् वराहस्य देहे यत्किंचित् अतिरिक्ता शर्करा भवति, तस्य सर्वस्य रूपान्तरणं वसाद्रव्ये भवति। अनेन कारणेन शूकरः मेदुरः भवति। अन्येषां पशूनां अन्तरे अयं वैशिष्ट्यं नास्ति। कर्मकाण्डे, यदा अग्निसंभरणं कुर्वन्ति, तस्मात् पूर्वं पृथिव्योपरि शर्करायाः संवपनं कुर्वन्ति ( तैब्रा १,१, ३,७ )। एवं अयं शर्करा वराहविहृतं भवेत्, अयं निर्देशः अस्ति। कर्मकाण्डे या शर्करा अस्ति, तत् न मिष्टान्नं अस्ति, अपितु मृत्तिकारूपा अस्ति। शतपथब्राह्मणे ६.१.१.१३ कथनमस्ति यत् शर्करायाः पूर्वतमः रूपः अप्सु फेनः अस्ति, फेनतः मृदा भवति, मृदातः सिकता, सिकतातः शर्करा। शर्करातः अश्मा, अश्मतः अयः, अयतः हिरण्यं। अश्मा प्रस्तरस्य, लोष्टस्य संज्ञा अस्ति। पादपेषु यदा शर्करातः स्टार्चस्य निर्माणं एवं तदनन्तरं सेलुलोजस्य निर्माणं भवति, तत् अश्मा एवास्ति। किन्तु पशुषु शर्करायाः जटिलनं ग्लाईकोजनरूपे भवति यत् अश्मा, प्रस्तरः न प्रतीयते। काठकसंहिता २०, ४, मैत्रायणी संहिता १.६.३ आदिषु शर्करा पशुभ्यः वज्ररूपा अस्ति, अयं उल्लेखः अस्ति। केन प्रकारेण वज्ररूपा अस्ति, किमयं व्याधीनां निवारणं करोति, न ज्ञातमस्ति। शतपथब्राह्मणे ८.७.४.२ कर्मकाण्डे स्वयमातृण्णा इष्टकायाः संज्ञा शर्करा अस्ति। स्वयमातृण्णा अर्थात् प्राकृतिकरूपेण छिद्रयुक्ता। सूक्ष्मरूपेण, पादपनिर्मिता या शर्करा अस्ति, तस्मात् कः द्रव्यः अधिकछिद्ररूपः अस्ति। रसायनविज्ञानस्य भाषायां, छिद्रः अर्थात् अभिक्रिया हेतु सर्वाधिक सक्रियः। कथनमस्ति यत् अयं शर्करा शुष्का अस्ति। अतएव, स्वयमातृण्णा पार्श्वे सामगायनस्य आवश्यकता भवति येन अयं रसयुक्ता भवेत्। सामगाने एकः शार्करं सामः अस्ति। किमयं शुष्कस्थाने रसस्य जननाय अस्ति, अन्वेषणीयः
शर्कर (शिशुमारर्षि - ) -> शार्करं (एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः । क्रीडन्नूर्मिरपामिव ॥) - स एतत् सामापश्यत्तेनापोऽनुसमाश्नुत तद्वाव स तर्ह्यकामयत कामसनि साम शार्करं काममेवैतेनावरुन्धे । तां १४, ५, १५ । १. एष वा अग्निर्वैश्वानरो यदसा आदित्यः , स यदिहासीत्तस्यैतद् भस्म यत् सिकता , यत् सिकता उपकीर्याग्निमाधत्ते स्व एवैनं योनौ स्वे भस्मन्नाधत्ते , शिथिरा वा इयमग्र आसीत् , तां प्रजापतिः शर्कराभिरदृंहत् , यं शर्करा उपकीर्याग्निमाधत्ते , इमां एव तद् दृंहति धृत्यै , तद्यथेमां प्रजापतिः शर्कराभिरदृंहदेवमस्मिन् पशवो दृंहन्ते य एवं विद्वाञ् शर्करा उपकीर्याग्निमाधत्ते । मै १, ६, ३ । २. इन्द्रो वै वृत्राय वज्रं प्राहरत् , तस्य या विप्रुषा आसंस्ताः शर्करा अभवन् , यच् शर्करा उपकीर्याग्निमाधत्ते वज्रं एव सपत्नाय भ्रातृव्याय प्रहरति। मै १,६, ३ । ३. तां (पृथिवीम् ) शर्कराभिरदृꣳहत् शं वै नोऽभूदिति तच्छर्कराणाꣳ शर्करत्वम् । यद्वराहविहतꣳसंभारो भवति। अस्यामेवाछम्बट्कारमग्निमाधत्ते।शर्करा भवन्ति धृत्यै तैब्रा १,१, ३,७ । ४. दिग्भ्यो लोष्टसंभरणम् --यदशीर्यत ताः शर्कराः ।पशुर्वा अग्निर्वज्रश्शर्करा यच्छर्कराभिः परिमिनोति वज्रेणैवास्मै पशून् परिगृह्णाति काठ २०, ४; क ३१, ६ । ५. ये ऽन्तःशरा अशीर्यन्त ताः शर्करा अभवन्, तच्छर्कराणाꣳ शर्करत्वम् ।वज्रो वै शर्कराः पशुर् अग्निः । यच् छर्कराभिर् अग्निम् परिमिनोति वज्रेणैवास्मै पशून् परि गृह्णाति तस्माद् वज्रेण पशवः परिगृहीतास्।...अपरिमिताभिः परि मिनुयाद् अपरिमितस्यावरुद्ध्यै यं कामयेतापशुः स्याद् इति अपरिमित्य तस्य शर्कराः सिकता व्यूहेत् । अपरिगृहीत एवास्य विषूचीनꣳरेतःपरासिञ्चति।अपशुर्एव भवति ॥ यं कामयेत पशुमान्त् स्याद् इति परिमित्य तस्य शर्कराः सिक्ता व्यूहेत् परिगृहीत एवास्मै समीचीनꣳरेतः सिञ्चति तैसं ५, २,६,२ । अग्ने तव श्रवो वय इति सिकता नि वपति ।…यद् एतेन सिकता निवपति प्रजानाम् प्रजननाय ।तैसं ५, २,६,१ ६. शर्कराभिः सꣳसृजति धृत्यै । तैआ ५, २, १३ ॥ ७. सिकताभ्यः शर्करामसृजत । तस्मात्सिकताः शर्करैवान्ततो भवति शर्कराया अश्मानं तस्माच्छर्कराश्मैवान्ततो भवत्यश्मनोऽयस्तस्मादश्मनोऽयो धमन्त्ययसो हिरण्यं तस्मादयो बहुध्मातं हिरण्यसंकाशमिवैव भवति। माश ६, १, ३, ५ ८. वज्रश्शर्कराः । काठ २०, ४; क ३१, ६ ( तु. तैसं ५, २, ६, २) । स श्रान्तस्तेपानो मृदं शुष्कापमूषसिकतं शर्करामश्मानमयोहिरण्यमोषधिवनस्पत्यसृजत तेनेमां पृथिवीं प्राच्छादयत् – माश ६.१.१.१३ समानं ह्यायुश्च प्राणश्च ते वा उभे एव शर्करे भवत उभे स्वयमातृण्णे समानं ह्येवायुश्च प्राणश्च – माश ८.७.३.२० अथ स्वयमातृण्णासु सामानि गायति । इमे वै लोकाः स्वयमातृण्णास्ता एताः शर्करास्ता देवा उपधायैतादृशीरेवापश्यन्यथैताः शुष्काः शर्कराः। तेऽब्रुवन् । उप तज्जानीत यथैषु लोकेषु रसमुपजीवनं दधामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथैषु लोकेषु रसमुपजीवनं दधामेति – माश ८.७.४.२ आहिताग्नेः शर्करा इत्यु हैक आहुर्या एवामूरग्न्याधेयशर्करास्ता एता इति – माश १३.८.४.११
ꣳ , |