पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Shamku - Shtheevana)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

 

Shamku -  Shankushiraa  ( words like Shakata/chariot, Shakuna/omens, Shakuni, Shakuntalaa, Shakti/power, Shakra, Shankara, Shanku, Shankukarna etc. )

Shankha - Shataakshi (Shankha, Shankhachooda, Shachi, Shanda, Shatadhanvaa, Shatarudriya etc.)

Shataananda - Shami (Shataananda, Shataaneeka, Shatru / enemy, Shatrughna, Shani / Saturn, Shantanu, Shabara, Shabari, Shama, Shami etc.)

Shameeka - Shareera ( Shameeka, Shambara, Shambhu, Shayana / sleeping, Shara, Sharada / winter, Sharabha, Shareera / body etc.)

Sharkaraa - Shaaka   (Sharkaraa / sugar, Sharmishthaa, Sharyaati, Shalya, Shava, Shasha, Shaaka etc.)

Shaakataayana - Shaalagraama (Shaakambhari, Shaakalya, Shaandili, Shaandilya, Shaanti / peace, Shaaradaa, Shaardoola, Shaalagraama etc.)

Shaalaa - Shilaa  (Shaalaa, Shaaligraama, Shaalmali, Shaalva, Shikhandi, Shipraa, Shibi, Shilaa / rock etc)sciple, Sheela, Shuka / parrot etc.)

Shilaada - Shiva  ( Shilpa, Shiva etc. )

Shivagana - Shuka (  Shivaraatri, Shivasharmaa, Shivaa, Shishupaala, Shishumaara, Shishya/de

Shukee - Shunahsakha  (  Shukra/venus, Shukla, Shuchi, Shuddhi, Shunah / dog, Shunahshepa etc.)

Shubha - Shrigaala ( Shubha / holy, Shumbha, Shuukara, Shoodra / Shuudra, Shuunya / Shoonya, Shoora, Shoorasena, Shuurpa, Shuurpanakhaa, Shuula, Shrigaala / jackal etc. )

Shrinkhali - Shmashaana ( Shringa / horn, Shringaar, Shringi, Shesha, Shaibyaa, Shaila / mountain, Shona, Shobhaa / beauty, Shaucha, Shmashaana etc. )

Shmashru - Shraanta  (Shyaamalaa, Shyena / hawk, Shraddhaa, Shravana, Shraaddha etc. )

Shraavana - Shrutaayudha  (Shraavana, Shree, Shreedaamaa, Shreedhara, Shreenivaasa, Shreemati, Shrutadeva etc.)

Shrutaartha - Shadaja (Shruti, Shwaana / dog, Shweta / white, Shwetadweepa etc.)

Shadaanana - Shtheevana (Shadaanana, Shadgarbha, Shashthi, Shodasha, Shodashi etc.)

 

 

 

शान्त-

अग्निहोत्र-ब्राह्मणम् - यदि पयो न विन्देदाज्येन जुहुयात् तद्ध्यप्रतिषेक्यमपशव्यमीश्वरमस्याशान्तँ शुचा पशून्निर्दहः प्रतिषिक्तं पशुकामस्य तच्छान्तं मिथुनमापश्च मयश्च   । काठ ,

शान्ति

१. यत्स्थावराणां (अपां) गृह्णाति, शान्त्या ऽ निर्मार्गाय । मै , , ।।

२. शान्तिर्वै शैशवम् (साम)। जै , १०२

अथ वामदेव्यम्। स ह शान्तिरेव स्तोमः- जै १.३१३

गार्हपत्यचयनम् --अनामृत एवाग्निं चिनुते । उद् धन्ति यद् एवास्या अमेध्यं तद् अप हन्ति । अपो ऽवोक्षति शान्त्यै  - तैसं ५.२.३.२

शुग् वा अग्नि, रापः शान्ति , र्यत् कुम्भेष्टका उपदधाति शान्त्यै –मै ३.४.१०,

आपश्शान्तिः  र्यत्तर्ह्यप उपप्रवर्तयति, शमयत्येव – मै ४.५.४

पो हि ष्ठा मयोभुव इत्यप उपसृजत्यापश्शान्ताश्शान्ताभिरेवास्य शुचँ शमयति – काठ १९.५

आपो वै शान्ताः –तैसं ५.१.५.१, ४.४.३

यस्या रात्र्याः प्रातर्यक्ष्यमाणः स्यान्नास्य तां रात्रीमपो गृहान् प्रहरेयुरा , पो वै शान्तिः, शमयेयुरेव  – मैसं २.१.५   

असुर्यं वा एतत्पात्रं यत् कुलालकृतं चक्रवृत्तं , यत्र स्कन्देत्तदपो निनयेत् , आपो वै शान्तिः , आपो निष्कृतिः , आपो भेषजाः , यत्र वा एता अस्या उपयन्ति तत् प्रशस्ततरा ओषधयो जायन्ते बंहीयसीः  – मै १.८.३  

क्रूरम् इव वा एतद् यज्ञस्य कुर्वन्ति यद् धविर्धाने ग्रावभिस् सोमं राजानं हत्वा बहिष्पवमानं सर्पन्ति। का तस्य प्रायश्चित्तिर् इत्य् आहुर् अप उपस्पृशेयुः। आपो वै सर्वस्य शान्तिः। अद्भिर् एवैनत् तच् छमयन्ति। – जै १.८२,

तद् आहुर् नोक्थष् षोडशी कार्य इति। पशवो वा उक्थानि वज्रष् षोडशी। वज्रं पशुषु विवर्तयेत्। अतिरात्र एव कार्यः। आपो वै सर्वस्य शान्तिः। अद्भिर् एवैनत् तच् छमयन्ति जै १.२०२  

यदपो निनयति, शान्त्या एव, रक्षसामपहत्यै – काठ २४.४ २१३,

 तदाहुर्यस्याग्निहोत्रमधिश्रितं स्कन्दति वा विष्यन्दते वा का तत्र प्रायश्चित्तिरिति तदद्भिरुपनिनयेच्छान्त्यै शान्तिर्वा आपोऽथैनद्दक्षिणेन पाणिनाऽभिमृश्य जपति। दिवं तृतीयं देवान्यज्ञोऽगात्ततो मा द्रविणमाष्टान्तरिक्षं तृतीयं पितॄन्यज्ञोऽगात्तततो मा द्रविणमाष्ट पृथिवीं तृतीयं मनुष्यान्यज्ञोऽगात्ततो मा द्रविणमाष्ट। ययोरोजसा स्कभिता रजांसीति वैष्णुवारुणीमृचं जपति विष्णुर्वै यज्ञस्य दुरिष्टं पाति वरुणः स्विष्टं तयोरुभयोरेव शान्त्यै– ऐ ७.५, कौ ३.६, ७, ८, ९, गो २.१.२५,

तमद्भिरभिमृशति । सकृद्वा त्रिर्वा तद्यदेवास्यात्रावघ्नन्तो वा पिंषन्तो वा क्षिण्वन्ति वा वि वा वृहन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः संदधाति तस्मादद्भिरभिमृशति - माश १.२.२.११,

स यत्प्राशित्रमवद्यति । यदेवात्राविद्धं यज्ञस्य यद्रुद्रियं तदेवैतन्निर्मिमीतेऽथाप उपस्पृशति शान्तिरापस्तदद्भिः शमयत्यथेडाम्पशून्त्समवद्यति  माश १.७.४.९, अथाप आचामति । शान्तिरापस्तदद्भिः शान्त्या शमयते - माश १.७.४.१७,

स एष देवयानो वा पितृयाणो वा पन्थाः । तदुभयतोऽग्निशिखे समोषन्त्यौ तिष्ठतः प्रति तमोषतो यः प्रत्युष्योऽत्यु तं सृजते योऽतिसृज्यः शान्तिरापस्तदेतमेवैतत्पन्थानं शमयति - माश १.९.३.२   

यद्वै यज्ञस्य मिथ्या क्रियते व्यस्य तद्वृहन्ति क्षण्वन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः संदधाति - माश १.९.३.४ ,

अथ दक्षिणान्बाहूनन्वावर्तन्ते । ते प्रतीक्षं पुनरायन्ति पुनरेत्याप उपस्पृशन्ति रुद्रियेणेव वा एतदचारिषुः शान्तिरापस्तदद्भिः शान्त्या शमयन्ते - माश २.६.२.१८ अथाप उपनिनयति । यत्र वा अस्यै खनन्तः क्रूरीकुर्वन्त्यपघ्नन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः संदधाति तस्मादप उपनिनयति - माश ३.३.१.७

शान्तिर् ह्यापः – क ३८.२

शान्तिर्वै प्रतिष्ठा एकाह- ऐआ १.१.३, २.१ ३;

नाराशंसीर्भवन्ति शान्त्यै – मै २.१.५;

अथाभ्यनिति। प्राणे वै शान्तिर् अग्निर् वै बृहद्रथन्तरे। ते प्राणेन शमयति। अथ ये शान्ते बृहद्रथन्तरे गायति ते हैते युवानश् श्रोत्रियाः प्रमीयन्ते स्वयम् उपरिष्टाद् वामदेव्यम्॥ स यथा घर्मं तप्तं शफाभ्यां परिगृह्य हरेद् एवम् एवैतद् बृहद्रथन्तरे वामदेव्याभ्यां परिगृह्य हरति। – जै १.३२७   

मित्रो जनान्यातयति प्रजानन्मित्रो दाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनिमिषाभिचष्टे मित्राय हव्यं घृतवद्विधेम ॥
इति मैत्र्यर्चा समिधमाधाय होतव्यं मित्रो वै यज्ञस्य शान्तिर्मित्रेणैवैनच्छमयति– काठ ३५.१९, क ४८.१७   

रेवतीर्निरमिमीत (प्रजापतिः) शान्त्यै – काठ १०.१०   

तद् यथाग्निदग्धम् अद्भिर् अभिषिंचेत् तादृग् एव तच् छान्त्यै। तद् आहुर् - योम् वा अग्निदग्धम् अद्भिर् अभिषिञ्चति भूयो वैतत् प्रमृच्यति किलासं वा भवति। आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिर् इत्य्(ऋ.८.१०१.९) एतास्व् एव वायुमतीषु कार्यं - वायुर् वै शान्तिश् - शान्त्या एवानिर्दाहायेति।...यद् उ दीप्त्यै, वायुर् एव दीप्त्यै। यद् उ शान्त्यै, वायुर् एव शान्त्यै। तस्माद् एतास्व् एव वायुमतीषु कार्यम् इति।– जै २.१३८,

धर्मणा वायुम् आ रुहेति (ऋ. ९.२५.२)वायुमतीर् भवन्ति - वायुर् वै शान्तिश् - शान्त्या एवानिर्दाहाय। जै ३.६६, तां ४.६.९

उख्यस्य जननम् - वैकंकतीम् आ दधाति भा एवावरुन्द्धे शमीमयीम् आ दधाति शान्त्यै- तैसं ५.१.९.६,

चितौ वह्निक्षेपविधिः -  विधेम ते परमे जन्मन्न् अग्न इति वैकङ्कतीम् आ दधाति भा एवाव रुन्द्धे ता सवितुर् वरेण्यस्य चित्राम् इति शमीमयी शान्त्यै । अग्निर् वा ह वा अग्निचितं दुहे ऽग्निचिद् वाग्निं दुहे ताम्  सवितुर् वरेण्यस्य चित्राम् इत्य् आह । तैसं ५.४.७.४, काठ २१.९]।

आवामदेव्यमुत्तरशान्तिः  - शाङ्खायनगृह्यसूत्रम् ६.२.७

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् । तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥कठोपनिषत् १.७ ॥

तदेतेनात्मन्नेतेनार्धचतुर्थेन मात्रेण शान्तिं संसृजन्ति पशुपाशविमोक्षणम् । - अथर्वशिरोपनिषत्

ग्वेदगतानां दशसंख्याकानामुपनिषदां वाङ्मे मनसीति शान्तिः ॥ १॥

शुक्लयजुर्वेदगतानामेकोनविंशतिसंख्याकानामुपनिषदां पूर्णमद इति शान्तिः ॥ २॥

कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानमुपनिषदां सह नाववत्विति शान्तिः ॥ ३॥

सामवेदगतानां षोडशसंख्याकानामुपनिषदानामाप्यायन्त्विति शान्तिः ॥ ४॥

थर्ववेदगतानामेकत्रिंशत्संख्याकानामुपनिषदां भद्रं कर्णेभिरिति शान्तिः ॥ मुक्तिकोपनिषत् ५॥