Make your own free website on Tripod.com

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Shamku - Shtheevana)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

 

Shamku -  Shankushiraa  ( words like Shakata/chariot, Shakuna/omens, Shakuni, Shakuntalaa, Shakti/power, Shakra, Shankara, Shanku, Shankukarna etc. )

Shankha - Shataakshi (Shankha, Shankhachooda, Shachi, Shanda, Shatadhanvaa, Shatarudriya etc.)

Shataananda - Shami (Shataananda, Shataaneeka, Shatru / enemy, Shatrughna, Shani / Saturn, Shantanu, Shabara, Shabari, Shama, Shami etc.)

Shameeka - Shareera ( Shameeka, Shambara, Shambhu, Shayana / sleeping, Shara, Sharada / winter, Sharabha, Shareera / body etc.)

Sharkaraa - Shaaka   (Sharkaraa / sugar, Sharmishthaa, Sharyaati, Shalya, Shava, Shasha, Shaaka etc.)

Shaakataayana - Shaalagraama (Shaakambhari, Shaakalya, Shaandili, Shaandilya, Shaanti / peace, Shaaradaa, Shaardoola, Shaalagraama etc.)

Shaalaa - Shilaa  (Shaalaa, Shaaligraama, Shaalmali, Shaalva, Shikhandi, Shipraa, Shibi, Shilaa / rock etc)sciple, Sheela, Shuka / parrot etc.)

Shilaada - Shiva  ( Shilpa, Shiva etc. )

Shivagana - Shuka (  Shivaraatri, Shivasharmaa, Shivaa, Shishupaala, Shishumaara, Shishya/de

Shukee - Shunahsakha  (  Shukra/venus, Shukla, Shuchi, Shuddhi, Shunah / dog, Shunahshepa etc.)

Shubha - Shrigaala ( Shubha / holy, Shumbha, Shuukara, Shoodra / Shuudra, Shuunya / Shoonya, Shoora, Shoorasena, Shuurpa, Shuurpanakhaa, Shuula, Shrigaala / jackal etc. )

Shrinkhali - Shmashaana ( Shringa / horn, Shringaar, Shringi, Shesha, Shaibyaa, Shaila / mountain, Shona, Shobhaa / beauty, Shaucha, Shmashaana etc. )

Shmashru - Shraanta  (Shyaamalaa, Shyena / hawk, Shraddhaa, Shravana, Shraaddha etc. )

Shraavana - Shrutaayudha  (Shraavana, Shree, Shreedaamaa, Shreedhara, Shreenivaasa, Shreemati, Shrutadeva etc.)

Shrutaartha - Shadaja (Shruti, Shwaana / dog, Shweta / white, Shwetadweepa etc.)

Shadaanana - Shtheevana (Shadaanana, Shadgarbha, Shashthi, Shodasha, Shodashi etc.)

 

 

श्रद्धा

किशोरावस्थायां कोपि कार्यः करणीयं अस्ति वा न, अस्य निर्णयं  रुच्यानुसारेण भवति। कार्यकरणोपरि किं लाभहानिः भविष्यति, अयं गौणं भवति। यत्र किशोराय स्वव्यवसायस्य चुनावस्य स्वतन्त्रता भवति, तत्र या किशोरस्य रुचिः भवति, सैव भविष्ये तस्य व्यवसायरूपे रूपान्तरितं भवति। कस्मिंश्चित् कार्यं प्रति मम रुचिः केन कारणेन अस्ति, अस्य निर्णयं किशोरावस्थायां कर्तुं न सक्षमः अस्मि। वैदिक वाङ्मये रुच्युत्पादकानां घटकानां संज्ञा पितृशक्तयः अस्ति। सर्वाधिकं सुगमं स्थितिरयं अस्ति यत् यः कार्यः इन्द्रियेभ्यः प्रियं अस्ति, तत्रैव रुचिरपि भवति। ये प्रौढाः सन्ति, ते किशोरस्य मार्गदर्शनं कुर्वन्ति यत् यद्यपि अमुकः कार्यः रुचिकरं अस्ति, किन्तु अन्ततोगत्वा सुखप्रदं नास्ति।

     वैदिकवाङ्मये भविष्यस्य सुखप्राप्तिहेतु रुच्याः हननं स्वीकार्यं नास्ति। अपेक्षितमस्ति यत् रुच्याः परिष्कारं भवेत्। रुच्यां ज्ञानस्य, भक्त्याः सम्मिश्रणं भवेत्। यदा एवं भविष्यति, तर्हि रुचितः श्रद्धा रूपी पुष्पस्य पल्लवनं भविष्यति। श्रद्धायाः आलयं मस्तिष्कं नास्ति, हृदयं अस्ति।

लक्ष्मीनारायणसंहितायां श्रद्ध्याः अपत्यद्वयरूपेण प्रज्ञा एवं इडायाः उल्लेखं अस्ति। लक्ष्मीनारायणसंहितायां (२.२४५.४९) कथनमस्ति यत् प्रज्ञा जीवरथस्य मार्गस्य निर्माणं करोति, पुण्यः सारथिः भवति। शिवपुराणानुसारेण (२.५.८.१५)शिवस्य रथे श्रद्धा गतिरूपा अस्ति। वैदिकवाङ्मये कथनं अस्ति -- श्रद्धा आपः(मै.सं. १.४.१०)। अत्र आपः पुण्य एवास्ति।

श्रद्धां प्रातर्हवामहे श्रद्धां मध्यन्दिनं परि। श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह नः।। - अस्मिन् संदर्भे जैमिनीय ब्राह्मणस्य ( १.७ ) कथनं रहस्योद्घाटकमस्ति। अयं कथनं अग्निहोत्रस्य संदर्भे अस्ति स वा एषो ऽस्तंयन् (आदित्यः) ब्राह्मणमेव श्रद्धया प्रविशति पयसा पशूंस् तेजसाग्निम् ऊर्जौषधी रसेनापस् स्वधया वनस्पतीन्॥ स यद् ब्राह्मणः (प्रातःकाले) ऽग्निहोत्रपात्राणि निर्णेनेक्ति यत् परिचेष्टति ययैवैनं श्रद्धया प्रविष्टो भवति ताम् एवास्मिंस् तत् संभरति॥ अथ यत् पयो दुहन्ति येन पयसा पशून् प्रविष्टो भवति तद् एवास्मिंस् तत् संभरति॥ अथ यद् अङ्गारान् निरूहति येन तेजसाग्निं प्रविष्टो भवति तद् एवास्मिंस् तत् संभरति॥ अथ यत् तृणेनावद्योतयति ययोर्जौषधीः प्रविष्टो भवति ताम् एवास्मिंस् तत् संभरति॥ अथ यद् अपः प्रत्यानयति येन रसेनापः प्रविष्टो भवति तम् एवास्मिंस् तत् संभरति॥ अथ यत् समिधम् अभ्यादधाति यया स्वधया वनस्पतीन् प्रविष्टो भवति ताम् एवास्मिंस् तत् संभरति।। कथनस्य व्याख्या एवंप्रकारेण शक्यमस्ति रात्रिकाले यदा बाह्यचेतनायाः अन्तर्मुखीकरणं भवति, तदा समग्रचेतनायाः यः भागः ब्राह्मण इव पवित्रः भवति, तस्मिन् भागे चेतनारूपी सूर्यः श्रद्धारूपेण प्रविशति। प्रातःकाले जागरणोपरि अयमेव भागः यज्ञस्य पात्राणां रूपं धारयिष्यति। यज्ञस्य पात्रेषु सोमं, आज्यं आदि धारयन्ति। सोमस्य धारकस्य पात्रस्य निर्माणं श्रद्धातः एव भविष्यति। श्रद्धा अर्थात् शृतं, पक्वं दधाति। स्थूलासु चेतनासु ज्ञानेन्द्रियाणि   चक्षुः, श्रोत्रं, मुखादि एव यज्ञस्य पात्राणि सन्ति। यदा एतेषु पात्रेषु श्रद्धायाः प्रवेशं भविष्यति, तदा ते कामक्रोधादीनां धारणस्य अयोग्याः भविष्यन्ति। इदानीमपि बहवः जनाः सन्ति ये मुखस्य परितः आभामण्डलस्य दर्शनं कर्तुं शक्यन्ते। अयं तेषां नैसर्गिकं क्षमता अस्ति। श्रद्धायाः प्रवेशनोपरि अस्य क्षमतायाः विकसनं सम्भवमस्ति।

     मनुष्यस्य चेतना न समग्ररूपेण ब्राह्मणात्मकः अस्ति। अयं सार्वत्रिकरूपेण चतुर्वर्णात्मकः अस्ति। अयं संभवमस्ति यत् जैमिनीयब्राह्मणे पशु, अग्नि, आपः, ओषधि, वनस्पतीनां उल्लेखं एषां त्रयाणां वर्णानां प्रतीकमस्ति। वनस्पतिषु अन्तर्मुखी चेतना स्वधारूपेण प्रविशति। स्वधा अर्थात् जीवनस्य धारणाय अपेक्षिता क्षमता क्षुधा, स्थूल देहस्य क्षयितस्य कोशानां नवीनरूपेण अंकुरणं। वनस्पतिषु अयं गुणं सर्वाधिकं भवति। प्रातःकाले जागरणोपरि अयं स्वधा समित् रूपे परिवर्तति। समित् अर्थात् समिति, सममिति।  

 

 अष्टसखी

पुराणों में आग्नेयी दिशा में शैब्या गोपी की स्थिति का उल्लेख है जबकि राधोपनिषद में श्रद्धा गोपी का। अथर्ववेद १५.२.८ में आग्नेय कोण में श्रद्धा पुंश्चली की स्थिति का उल्लेख है जिसका विज्ञान मित्र है, भूत और भविष्य परिष्कन्द हैं। पुंश्चली शब्द संकेत देता है कि श्रद्धा अस्थिर है। इस कथन को पुराणों में रानी शैब्या की कथाओं के आधार पर समझा जा सकता है। एक कथा में शैब्या राजा सगर की पत्नी बनकर असमञ्जस पुत्र को जन्म देती है। यह असमञ्जस वही श्रद्धा और अश्रद्धा के बीच की स्थिति है।

 

संदर्भ

यदब्र॑वं प्रथ॒मं वां॑ वृणा॒नो॒३॒॑ ऽयं सोमो॒ असु॑रैर्नो वि॒हव्यः॑। तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पिबतं सुतस्य॑॥ - ऋ. १.१०८.६

*आ यदश्वा॒न् व॑नन्वतः श्र॒द्धया॒हं रथे॑ रु॒हम्। - ऋ. ८.१.३१ तु. शिवपुराणम् २.५.८.१५(शिवरथे गतिरूपं)

*ऋ॒तं वद॑न्नृतद्युम्न स॒त्यं वद॑न् त्सत्यकर्मन्। श्र॒द्धां वद॑न् त्सोम राजन् धा॒त्रा सो॑म॒ परिष्कृत॒ इन्द्रा॑येन्दो॒ परि॑ स्रव॥ - ऋ. ९.११३.४

*श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवे ऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः। - ऋ. १०.१४७.१

*श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः। श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि॥१॥ प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः। प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि॥२॥ यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे। ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि॥३॥ श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते। श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑॥४॥ श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑। श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह नः॑॥५॥ - ऋ. १०.१५१.१-५

*अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्र॒द्धेयं॑ ते वदामि शौ.अ. ४.३०.४

*ब्र॒ह्मौ॒द॒नं वि॑श्व॒जितं॑ पचामि शृ॒ण्वन्तु॑ मे श्र॒द्दधा॑नस्य दे॒वाः शौ.अ. ४.३५.७

*अ॒न्वार॑भेथामनु॒संर॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते। - शौ.अ. ६.१२२.३

*श्र॒द्धाया॑ दुहि॒ता तप॒सोऽधि॑ जा॒ता स्वस॒ ऋषी॑णां भूत॒कृतां ब॒भूव॑। सा नो॑ मेखले म॒तिमा धे॑हि मे॒धामथो॑ नो धेहि॒ तप॑ इन्द्रि॒यं च॑॥ - शौ.अ. ६.१३३.४

*अ॒जो अ॒ग्निर॒जमु॒ ज्योति॑राहुर॒जं जीव॑ता ब्र॒ह्मणे॒ देय॑माहुः। अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः॥ - शौ.अ. ९.५.७

*ए॒तद् वो॒ ज्योतिः॑ पितरस्तृ॒तीयं॒ पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति। अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः॥ - शौ.अ. ९.५.११

*केन॑ य॒ज्ञं च॑ श्र॒द्धां च॒ केना॑स्मि॒न् निहि॑तं॒ मनः॑ शौ.अ. १०.२.१९

*हिर॑ण्यस्रग॒यं म॒णिः श्र॒द्धां य॒ज्ञं महो दध॑त्। गृ॒हे व॑सतु॒ नोऽति॑थिः॥ शौ.अ. १०.६.४

*ऋ॒तं च॒ यत्र॑ श्र॒द्धा चापो॒ ब्रह्म॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः शौ.अ. १०.७.११

*अ॒ग्नि॒हो॒त्रं च॑ श्र॒द्धा च॑ वषट्का॒रो व्र॒तं तपः॑। दक्षि॑णे॒ष्टं पू॒र्तं चोच्छि॒ष्टेऽधि॑ स॒माहि॑ताः॥ - शौ.अ. ११.९.९

*शरी॑रं श्र॒द्धा दक्षि॒णाश्र॑द्धा॒ चानु॒ प्रावि॑शन् शौ.अ. ११.१०.२२

*येऽश्र॒द्धा ध॑नका॒म्या क्र॒व्यादा॑ स॒मास॑ते। ते वा अ॒न्येषां॑ कु॒म्भीं प॒र्याद॑धति सर्व॒दा॥ - शौ.अ. १२.२.५१

*प्राचींप्राचीं प्र॒दिश॒मा र॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते। - शौ.अ. १२.३.७

*भू॒तं च॒ भव्यं॑ च श्र॒द्धा च॒ रुचि॑श्च स्व॒र्गश्च॑ स्व॒धा च॑ य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ शौ.अ. १३.६.२

*तस्य प्राच्यां दिशि श्र॒द्धा पुं॑श्च॒ली मि॒त्रो मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒। - - - भू॒तं च॑ भवि॒ष्यच्च॑ परिष्क॒न्दौ मनो॑ विप॒थम्। - शौ.अ. १५.२.५

*स म॑हि॒मा सद्रु॑र्भू॒त्वान्तं॑ पृथि॒व्या अ॑गच्छ॒त् स स॑मु॒द्रोऽभवत्। तं प्र॒जाप॑तिश्च परमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चाप॑श्च श्र॒द्धा च॑ व॒र्षं भूत्वानु॒व्यवर्तयन्त। ऐन॒मापो॑ गच्छ॒त्यैनं॑ श्र॒द्धा ग॑च्छ॒त्यैनं॑ व॒र्षं ग॑च्छति॒ य ए॒वं वेद॑॥ तं श्र॒द्धा च॑ य॒ज्ञश्च॑ लो॒कश्चान्नं॑ चा॒न्नाद्यं॑ च भू॒त्वाभि॑प॒र्याव॑र्तन्त। ऐनं॑ श्र॒द्धा ग॑च्छ॒त्यैनं॑ य॒ज्ञो ग॑च्छ॒त्यैनं॑ लो॒को ग॑च्छ॒त्यैन॒मन्नं॑ गच्छ॒त्यैन॑म॒न्नाद्यं॑ गच्छति॒ य ए॒वं वेद॑ शौ.अ. १५.७.१-५

*तस्य॒ व्रात्य॑स्य। योऽस्य चतु॒र्थोऽपा॒नः सा श्र॒द्धा॥ तस्य॒ व्रात्य॑स्य। योऽस्य पञ्च॒मोऽपा॒नः सा दी॒क्षा॥ - शौ.अ. १५.१६.४

*अग्ने॑ स॒मिध॒माहा॑र्षं बृहते जा॒तवे॑दसे। स मे॑ श्र॒द्धां च॑ मे॒धां च॑ जा॒तवे॑दाः॒ प्र य॑च्छतु॥ - शौ.अ. १९.६४.१

*किलात-आकुली असुर पुरोहितों द्वारा मनु के ऋषभ द्वारा यजन का प्रस्ताव : तौ होचतुः श्रद्धादेवो वै मनुः, आवं नु वेदावेति। तौ हागत्योचतुः मनो! याजयाव त्वेति। केनेति अनेनर्षभेणेति। तथेति। तस्यालब्धस्य सा वागपचक्राम। सा मनोरेव जायां मनावीं प्रविवेश।- - - मा.श. १.१.४.१६

*आज्य अवेक्षण : सत्यं वै चक्षुः। - - - अहमदर्शम् इति तस्मा एव श्रद्दध्याम। - मा.श. १.३.१.२७

*दर्शपूर्णमासयागस्य वैशिष्ट्यम् : श्रद्धा इडा मा.श. ११.२.७.२०

*तेज एव श्रद्धा। सत्यमाज्यम्। - - -वेत्थाग्निहोत्रं याज्ञवल्क्या ३ इति। वेद सम्राडिति। किमिति। पय एवेति। यत्पयो न स्यात्, केन जुहुया इति - - - -स होवाच। न वा इह तर्हि किंचनासीत्। अथैतदहूयतैव। सत्यं श्रद्धायामिति।   मा.श. ११.३.१.१

*अग्निहोत्र विवेचनम् : अथ ये एते स्त्रियावद्राक्षीः कल्याणीं चातिकल्याणीं च। सा या कल्याणी सा श्रद्धा। स यत्पूर्वामाहुतिं जुहोति। तेन श्रद्धामवरुंधे। तेन श्रद्धां जयति। अथ याऽतिकल्याणी साऽश्रद्धा। स यदुत्तरामाहुतिं जुहोति। तेनाश्रद्धामवरुंधे। तेनाश्रद्धां जयति। - मा.श. ११.६.१.१२

*सौत्रामणी यागः पुनाति ते परिस्रुतम् सोमं सूर्यस्य दुहिता इति। श्रद्धा वै सूर्यस्य दुहिता। श्रद्धयैष सोमो भवति। श्रद्धयैवैनं सोमं करोति। मा.श. १२.७.३.११

*सौत्रामण्यां सोमसम्पत्तिः शिरो वा एतद्यज्ञस्य। यद् व्रतम्। आत्मा दीक्षा। एतत् खलु वै व्रतस्य रूपम्। यत् सत्यम्। एतद्दीक्षायै। यच्छ्रद्धा।   मा.श. १२.८.२.४

*वृषा सत्यम्। योषा श्रद्धा। - मा.श. १२.८.२.६

*कस्मिन्नु दक्षिणा प्रतिष्ठिता भवतीति। श्रद्धायामिति। यदा ह्येव श्रद्धत्ते। अथ दक्षिणां ददाति। - - - कस्मिन्नु श्रद्धा प्रतिष्ठिता भवतीति। हृदय इति। हृदयेन हि श्रद्धत्ते मा.श. १४.६.९.२२

*असौ वै लोकोऽग्निर्गौतम। तस्यादित्य एव समित्। रश्मयो धूमः। अहरर्चिः। चंद्रमा अंगाराः। नक्षत्राणि विष्फुलिंगाः। तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति। तस्या आहुतेः सोमो राजा सम्भवति। - मा.श. १४.९.१.१२

*स वा एषो ऽस्तंयन् (आदित्यः) ब्राह्मणमेव श्रद्धया प्रविशति पयसा पशूंस् तेजसाग्निम् ऊर्जौषधी रसेनापस् स्वधया वनस्पतीन्॥ स यद् ब्राह्मणो ऽग्निहोत्रपात्राणि निर्णेनेक्ति यत् परिचेष्टति ययैवैनं श्रद्धया प्रविष्टो भवति ताम् एवास्मिंस् तत् संभरति॥ जै.ब्रा. १.७

*अग्निहोत्रम् -- अथ यत् स्रुचं निरश्नाति तेन तं देवजना आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति।अथ यत् स्रुचस् संक्षालनं निनयति- - - तं वयांस्य आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति।अथ या एतास् स्रुचो निर्णिज्योदीचीर् अप उत्सिञ्चति - --तम् ऋषय आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति। अथ यत् स्थालीसंक्षालनं निनयति तेन सर्पजनान् प्रीणाति। तं सर्पजना आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥ जै.ब्रा. १.४१

*द्वे स्त्रियौ महद् वित्तम् अजुगुपताम् इति। ओम् इति होवाच। श्रद्धा च वै ते अश्रद्धा चाभूताम्। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो ऽश्रद्दधाना यजन्ते तद् अश्रद्धां गच्छति यच् छ्रद्दधानास् तच् छ्रद्धाम्। - जै.ब्रा. १.४३

*स य एवं विद्वान् अग्निहोत्रं जुहोति नैनम् - - - -। नास्येष्टापूर्ते श्रद्धां चाश्रद्धां च गच्छतो जै.ब्रा. १.४४   

*यदा वै क्षत्रियं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै ददाति। - - -यदा वै वैश्यं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। - - -यदा वै शूद्रं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। - जै.ब्रा. १.२६६

*वाचं म ऋचो ऽनु दीक्षन्तां, मनो यजूंषि, प्राणं सामानि। श्रद्धां मे सोमो राजानुदीक्षताम् जै.ब्रा. २.६५

*अथाकामयत गौतम श्रद्धानीया मे प्रजा ब्रह्मवर्चसिनी स्याद् इति। - --श्रद्धा वै ब्रह्मवर्चसमेकविंश स्तोमानाम्। असौ हि स आदित्यः जै.ब्रा. २.२१८

*अथैष गौतमस्य चतुष्टोमः। - - -ततो वै तस्मै श्रद्दधत, श्रद्धानीयो ऽभवत्। - -स वा एष कृतस्तोमः। श्रद्धा वै कृतम्। - - --स वा एष चतुरुत्तर्य्य् अङ्गिरसाम। द्व्युत्तरेण वा आदित्या स्वर्गं लोकम् आयंश्, चतुरुत्तरेणांगिरसः। जै.ब्रा. २.२९०

*एषा ह वै देवानां राज्ञी यच्छ्रद्धा। सैषा प्रातर् उपक्रम्य तिष्ठति। तां देवा उपतिष्ठन्ते याद्रीच्य् एष्यति तद्र्यञ्च एष्याम इति। जै.ब्रा. २.४२६

*तम् (वसिष्ठस्य भ्रातरं) अबाधन्त स्तेनो ऽस्य् अनृषिर् इति। सो ऽकामयत श्रद्धां विन्देयोप मा ह्वयेरन्न् इति। स एतत् सामापश्यत्। तेनास्तुत। स ओ इ ज्वरेत्य् एव निधनम् उपैत्। ततो वै स श्रद्धाम् उपहवम् अविन्दत। श्रद्धां विन्दामहा इति सत्रमासते। श्रद्धाम एव विन्दन्ते। एतद् ध वै वाचस् सत्यं यद् ओ इ ज्वरेति। - - सत्येन वै स तद् वाचश् श्रद्धाम् उपहवम् अविन्दत। जै.ब्रा. ३.२४

*तासु श्रुधीयम् (साम)। क्षयाद् वै बिभेमीति। नेत्य् अब्रुवन्। तस्मै वै मे श्रद्धां कुरुतेति। तस्मै श्रोधियेत्य् एव श्रद्धाम् अकुर्वन्।   जै.ब्रा. ३.२७४

*अपत्नीकोऽग्निहोत्रं कथमग्निहोत्रं जुहोति? श्रद्धा पत्नी, सत्यं यजमानः, श्रद्धा सत्यं तदित्युत्तमं मिथुनं ऐ.ब्रा. ७.१०

*श्रद्धा वा आपः तै.सं. १.६.८.१, तै.ब्रा. ३.२.४.१

*सत्यं च मे श्रद्धा च मे (यज्ञेन कल्पताम्) तै.सं. ४.७.२.१

*श्रद्धां कामस्य मातरं हविषा वर्द्धयामसि तै.ब्रा. २.८.८.८

*श्रद्धया देवो देवत्वमश्नुते तै.ब्रा. ३.१२.३.१

*मित्रस्य श्रद्धा(पत्नी) तै.आ. ३.९.२

*तस्यै॒वं वि॒दुषो॑ य॒ज्ञस्या॒ऽऽत्मा यज॑मानः श्र॒द्धा पत्नी॒  - - -  तै.आ. १०.६४.१

*आपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे वरुणोऽस्य प्रजां धर्मेण दाधार ऐ.आ. २.१.७

*दीक्षा : श्रद्धैव सकृदिष्टस्याक्षितिः स यः श्रद्दधानो यजते तस्येष्टं न क्षीयते कौ.ब्रा. ७.४

*अश्रद्धामनृतेऽधाच्श्रद्धाँँ सत्ये प्रजापतिः मै.सं. ३.११.६

*आपः श्रद्धा कपि.क.सं. ४७.३

*आपो वै श्रद्धा मै.सं. १.४.१०, ४.१.४

*आपश्श्रद्धा, श्रद्ध वा अस्मै देवाश्श्रन्मनुष्या दधते यस्यैवं विदुषो यस्यैवं विद्वानपः प्रणयति काठ.सं. ३१.३

*श्रद्दधानं वै पितरोऽन्वायन्ति काठ.संक. ५७:८

*प्रज्ञा पूर्वरूपं श्रद्धोत्तररूपं कर्म संहिता सत्यं सन्धानम् शां.आ. ७.१८

*यदेव . .. .करोति श्रद्धयोपनिषदा छांदो.उ. १.१.१०

*श्रद्धादेयो बहुदायी छां.उ. ४.१.१

*एतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति छां.उ. ५.४.२, बृह.उ. ६.२.९

*ये चेमे ऽरण्ये श्रद्धातप इत्युपासते छां.उ. ५.१०.१

*श्रद्धत्स्व सोम्य छां.उ. ६.१२.३

*श्रद्धात्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञासे छां.उ. ७.१९.१

*यदा वै श्रद्दधात्यथ मनुते .. . . श्रद्दधदेव मनुते छां.उ. ७.१९.१

*यदा वै निस्तिष्ठत्यथ श्रद्दधाति . . . निस्तिष्ठन्नेव श्रद्दधाति छां.उ. ७.२०.१

*श्रद्धाश्रद्धा धृतिरधृतिः बृह.उ. १.५.३, मैत्रि.उ. ६.३०

*कस्मिनु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति बृह.उ. ३.९.२१

*कस्मिन्नु श्रद्धा प्रतिष्ठितेति . . हृदयेन हि श्रद्धां जानाति हृदये ह्येष श्रद्धा प्रतिष्ठिता बृह.उ. ३.९.२१

*ये चामी अरण्ये श्रद्धां सत्यमुपासते बृह.उ. ६.२.१५

*श्रद्धया देयमश्रद्धयादेयम् तै.उ. १.११.३

*तस्य श्रद्धैव शिरः तै.उ. २.४.१

*तं ह कुमारं सन्तं . . .श्रद्धा विवेश कठ.उ. १.१

*श्रद्धया हुतम् मुण्ड.उ. २.२

*तपःश्रद्धे ये ह्युपवसन्त्यरण्ये मुण्ड.उ. २.११

*श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च मुण्ड.उ. २.१.७

*श्रद्धायां प्राणे निविश्यामृतं हुतम् महानारा.उ. १६.१

*श्रद्धा प्रजा च मेधा च महाना. उ. १९.१

*तपसा श्रद्धा श्रद्धया मेधा महाना.उ. २३.१

*आत्मा यजमानः श्रद्धा पत्नी महाना.उ. २५.१

*तपसा ब्रह्मचर्येण श्रद्धया प्रश्न.उ. १०.५.२

*स प्राणमसृजत प्राणाच्छ्रद्धाम् प्रश्न.उ. ६.४

*श्रद्धाभक्तिध्यानयोगात् कैवल्योप. २

*श्रद्धया यां काञ्चिद्दद्यात् नृसिं.पू.उ. ५.२

*श्रद्धावन्तो ऽनसूयन्तः गीता ३.३१

*श्रद्धावाँल्लभते ज्ञानम् गीता ४.३९

*अयतिः श्रद्धयोपेतः गीता ६.३७

*श्रद्धावान्भजते यो माम् गीता ६.४७

*श्रद्धयार्चितुमिच्छति गीता ७.२१

*तस्य तस्याचलां श्रद्धाम् गीता ७.२१

*स तथा श्रद्धया युक्तः गीता ७.२२

*यजन्ते श्रद्धयान्विताः गीता ९.२९, १७.१

*श्रद्धया परयोपेताः गीता १२.२

*श्रद्दधाना मत्परमाः गीता १२.२०

*त्रिविधा भवति श्रद्धा गीता १७.२

*सत्त्वानुरूपा सर्वस्य श्रद्धा गीता १७.३

*श्रद्धामयो ऽयं पुरुषः गीता १७.३

*श्रद्धाविरहितं यज्ञम् गीता १७.१३

*श्रद्धया परया तप्तं तपः गीता १७.१७

*श्रद्धावाननसूयश्च गीता १८.७१

*श्रद्धावन्तं सत्कुलभवम् मुक्तिकोप. १

*श्रद्धासत्यो महस्वान् महाना.उ. २४.१

*यदा ह्येव श्रद्धत्ते ऽथ दक्षिणां ददाति बृह.उ. ३.९.२१

*य एव ब्रूयादहमदर्शमिति तस्मा एव श्रद्दध्याम बृह.उ. ५.१४.४

*प्रब्रूहि तं श्रद्दधानाय मह्यम् कठोप. १.१३

*स्वयं जुह्वते एकर्षि श्रद्धयन्तः मुण्ड.उ. ३.२.१०