पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Shamku - Shtheevana)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

 

Shamku -  Shankushiraa  ( words like Shakata/chariot, Shakuna/omens, Shakuni, Shakuntalaa, Shakti/power, Shakra, Shankara, Shanku, Shankukarna etc. )

Shankha - Shataakshi (Shankha, Shankhachooda, Shachi, Shanda, Shatadhanvaa, Shatarudriya etc.)

Shataananda - Shami (Shataananda, Shataaneeka, Shatru / enemy, Shatrughna, Shani / Saturn, Shantanu, Shabara, Shabari, Shama, Shami etc.)

Shameeka - Shareera ( Shameeka, Shambara, Shambhu, Shayana / sleeping, Shara, Sharada / winter, Sharabha, Shareera / body etc.)

Sharkaraa - Shaaka   (Sharkaraa / sugar, Sharmishthaa, Sharyaati, Shalya, Shava, Shasha, Shaaka etc.)

Shaakataayana - Shaalagraama (Shaakambhari, Shaakalya, Shaandili, Shaandilya, Shaanti / peace, Shaaradaa, Shaardoola, Shaalagraama etc.)

Shaalaa - Shilaa  (Shaalaa, Shaaligraama, Shaalmali, Shaalva, Shikhandi, Shipraa, Shibi, Shilaa / rock etc)sciple, Sheela, Shuka / parrot etc.)

Shilaada - Shiva  ( Shilpa, Shiva etc. )

Shivagana - Shuka (  Shivaraatri, Shivasharmaa, Shivaa, Shishupaala, Shishumaara, Shishya/de

Shukee - Shunahsakha  (  Shukra/venus, Shukla, Shuchi, Shuddhi, Shunah / dog, Shunahshepa etc.)

Shubha - Shrigaala ( Shubha / holy, Shumbha, Shuukara, Shoodra / Shuudra, Shuunya / Shoonya, Shoora, Shoorasena, Shuurpa, Shuurpanakhaa, Shuula, Shrigaala / jackal etc. )

Shrinkhali - Shmashaana ( Shringa / horn, Shringaar, Shringi, Shesha, Shaibyaa, Shaila / mountain, Shona, Shobhaa / beauty, Shaucha, Shmashaana etc. )

Shmashru - Shraanta  (Shyaamalaa, Shyena / hawk, Shraddhaa, Shravana, Shraaddha etc. )

Shraavana - Shrutaayudha  (Shraavana, Shree, Shreedaamaa, Shreedhara, Shreenivaasa, Shreemati, Shrutadeva etc.)

Shrutaartha - Shadaja (Shruti, Shwaana / dog, Shweta / white, Shwetadweepa etc.)

Shadaanana - Shtheevana (Shadaanana, Shadgarbha, Shashthi, Shodasha, Shodashi etc.)

 

 

शूलः

प्रत्यक्षरूपेण, ऋग्वेदे शूलशब्दः एकलायां ऋचि प्रकटयति। किन्तु शूरः शब्दः बाहुल्येन प्रकटयति। शूल-शूरशब्दयोः किं तादात्म्यमस्ति, अन्वेषणीयः। किन्तु, पुराणेषु शूलशब्दस्य उपरिष्टात् त्रिशूलशब्दः प्रकटयति यस्योपरि वैदिकवाङ्मये प्रत्यक्षरूपेण कोपि कथनं नास्ति।

त्रिपुरातापिन्युपनिषदि ३.३१ कथनमस्ति यत् शूलमूले व्यञ्जनसिद्धिः करणीयमस्ति। अयं संकेतं यत् शूलाग्रे स्वरसिद्धिः करणीयमस्ति। यदा शूलः अग्रतः अणिष्ठः भविष्यति, तदैव वेधने समर्थः भविष्यति। आध्यात्मिकरूपेण, अयं अणिष्ठत्वं प्रेमः अस्ति, अयं कथितुं शक्यन्ते। प्रेमस्य स्थूलरूपाः मैत्री, कृपा, उपेक्षा सन्ति(भागवतपुराणम्)। स्कन्दपुराण ५.३.१९८.९१ अनुसारेण शूलाग्रः शूलेश्वरीदेव्याः स्थानमस्ति, शूलमूलः रुद्रस्य।

सोमयागे पशोः हृदयं शूलेन विद्धनीयं भवति। एतेन कृत्येन पशोः हृदये यः शुचं भवति, शूलः तस्य अवशोषणं करोति। शूलः यस्य शुचः अवशोषणं करोति, तस्य विसर्जनं केन प्रकारेण भवेत्, अयं महान् प्रश्नः अस्ति। शतपथब्राह्मणाद्यानुसारेण, यत्र शुष्क-आर्द्रस्य सन्धिः अस्ति, तत्र शूलस्य उपगूहनं करणीयमस्ति। अयं शुष्कार्द्रस्य सन्धिः किमस्ति, विचारणीयः। एका स्थितिः शुष्कसाधना-रसयुक्तभक्तिसाधनायाः अस्ति। व्यवहारे, यत् शुचं हृदये अस्ति, तस्य किं कारणं। कारणमस्ति यत् समस्याउपरि विचारविमर्शः एकलस्तरे एव अस्ति। यदा अयं विचारः बृहदस्तरोपरि भविष्यति, तदा अस्य कोपि समाधानः संभवमस्ति। वैदिकवाङ्मये दधिघर्मस्य संदर्भे अस्य प्रकारस्य उल्लेखः अस्ति।

पुराणेषु रुद्रेण अंधकस्य त्रिशूलोपरि लम्बनेन तस्य धातूनां तनूकरणं एवं तदोपरि अंधकस्य शिवस्य भृङ्गीरिटिगणस्य भवनस्य कथा सार्वत्रिकरूपेण वर्णिता अस्ति। स्कन्दपुराणे ५.३.४९.११ कथितमस्ति यत् अंधकस्य देहस्य यः रसः शूले लिप्तः आसीत्, तस्य मुक्तिः तदैव अभवत् यदा शूलेप्रहारेण भृगुपर्वतस्य छेदनं अभवत्। अयं कथा अंधकस्य भृङ्गीगणभवनस्य मध्ये एकः महत्त्वपूर्णसेतुः अस्ति। भृगुशब्दः भॄञ् – भर्जने, पापानां भर्जनेन सम्बद्धः अस्ति। अतएव, यदा लौकिकवाङ्मये भ्रमरेण मधुपानस्य उल्लेखं भवति, तत्पूर्वं भ्रमरस्य पापरहितं स्थितिः अपेक्षितमस्ति।

संदर्भाः

यत्ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति ।
मा तद्भूम्यामा श्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥ऋ १.१६२.११

अथ हृदयशूलेनावभृथं यन्ति । पशोर्ह वा आलभ्यमानस्य हृदयं शुक्समभ्यवैति हृदयाद्धृदयशूलमथ यच्छृतस्य परितृन्दन्ति तदलंजुषं तस्मादु परितृद्यैव शूलाकुर्यात्तत्त्रिः प्रच्युते पशौ हृदयं प्रवृह्योत्तमम्प्रत्यवदधाति - ३.८.५.[८]

अथ हृदयशूलं प्रयच्छति । तन्न पृथिव्यां परास्येन्नाप्सु स यत्पृथिव्याम्परास्येदोषधीश्च वनस्पतींश्चैषा शुक्प्रविशेद्यदप्सु परास्येदप एषा शुक्प्रविशेत्तस्मान्न पृथिव्यां नाप्सु - ३.८.५.[९]

अप एवाभ्यवेत्य । यत्र शुष्कस्य चार्द्रस्य च संधिः स्यात्तदुपगूहेद्यद्यु ऽअभ्यवायनाय ग्लायेदग्रेण यूपमुदपात्रं निनीय यत्र शुष्कस्य चार्द्रस्य च संधिर्भवति तदुपगूहति नापो नौषधीर्हिंसीरिति तथा नापो नौषधीर्हिनस्ति धाम्नोधाम्नो राजंस्ततो वरुण नो मुञ्च यदाहुरघ्न्या इति वरुणेति शपामहे ततो वरुण नो मुञ्चेति तदेनं सर्वस्माद्वरुणपाशात्सर्वस्माद्वरुण्यात्प्रमुञ्चति - माश ३.८.५.[१०]

तदाहुः । नैतस्य पशोः समिष्टयजूंषि जुहुयान्न हृदयशूलेनावभृथमभ्यवेयादारम्भो वा एषोऽग्नेः पशुर्व्यवसर्गो देवतानां समिष्टयजूंषि संस्थाऽवभृथो नेदारम्भे देवता व्यवसृजानि नेद्यज्ञं संस्थापयानीति  माश ६.२.२.३८

तस्य वा एतस्य पशोः । जुह्वति समिष्टयजूंष्यभ्यवयन्ति हृदयशूलेनावभृथं संस्था ह्येष पशुर्हृदयशूलेन चरित्वा - ९.५.१.[४१]

तद्धैतदेके कुशला मन्यमानाः प्रगृह्य बाहू स्रुचौ धारयन्ति न तथा कुर्याद्यो हैनं तत्र ब्रूयाच्छूलौ न्वा अयमध्वर्युर्बाहू अकृत शूलबाहुर्भविष्यतीतीश्वरो ह तथैव स्यादथ हैष मध्यमः प्राणस्तस्मादु तमुपन्यच्येवैव धारयेत् - ११.४.२.[४]

तदाहुः। अध्वर्यो यद्दीक्षितस्य नानवभृथोऽवकल्पते क्वैनमवभृथमवनेष्यसीति स यद्धृदयशूलेन चरन्ति स हैवैतस्यावभृथः - ११.७.२.[७]

अथ यस्यैतद्वक्रस्य सतः। शूल इवाग्रं भवति स ह कपोती नाम स यो ह तादृशं यूपं कुरुते पुरा हायुषोऽमुं लोकमेति तस्मात्तादृशमायुष्कामो यूपं न कुर्वीत - ११.७.३.[२]

एतद्वै पशोः संज्ञप्यमानस्य। हृदयं शुक्समवैति हृदयाच्छूलं तद्ये सह हृदयेन पशुं श्रपयन्ति पुनः पशुं शुगनुविष्यन्देत पार्श्वत एवैनत्काष्ठे प्रतृद्य श्रपयेत् - ११.७.४.[३]

हलभञ्जन शूलमूले व्यञ्जनसिद्धिं कुरुकुरु – त्रिपुरातापिन्युपनित् ३.३१

शूलात्प्रवृह्य हृदयं कुम्भ्यामवधाय सं ते मनसा मन इति पृषदाज्येन हृदयमभिघारयत्युत्तरतः परिक्रम्य..... पशुं हरन्पार्श्वतो हृदयशूलं धारयत्यनुपस्पृशन्नात्मानमितरांश्च १० आप.श्रौ.सू. ७.२३.७

यस्ते देव वरुण.... पङ्क्तिच्छन्दा(पाशः) इति शूलान् आप.श्रौ. १९..४.९

शूले हृदयं प्रतृद्य शामित्रे श्रपयति १४ पशुं चोखायाम् का.श्रौ.सू. ६.७.१५ 

त्रिःप्रच्युते हृदयं प्रवृह्योत्तमं करोति २ शूलं चाऽभूमौ का.श्रौ.सू. ६.८.३

उखाशूलं वपाश्रपण्यौ च का.श्रौ.सू. ८.८.३०

हृदयशूलानामुद्वासन इति ॥ एकैकश उद्वासयेदिति बौधायनः। सर्वान्सहेति शालीकिः ॥ बौ.श्रौ.सू. २३.१६.२०

शूलेऽश्वशेषश्रपणम् का.श्रौ.सू. २०.७.२७

अथ यच्छूलेषूपनीय गव्यानि श्रपयन्ति स शूलगवः ।बौ.गृ.सू. १.१.९

तान्येष्वेव शूलेषूपनीक्ष्य तस्मिन्नेवाग्नौ श्रपयन्ति ।१३। अथैतानि शूलेभ्य उपनीक्ष्य पुनः कुम्भ्यां श्रपयन्ति ।बौ.गृ.सू. २.७.१४

कण्ठे शूलार्पितां कृत्वा तापयेत्तु दिनेदिने । यावच्छत्रुर्वशं याति विलीनायां विनश्यति ॥ अ.प. ३१.९.५

यूपाग्रमधिरुह्याथ नावाग्रमधिरोहति । अचिरेणैव कालेन शूलाग्रं सोऽधिरोहति ॥ अथर्वपरि. ६८.५.६

द्र. त्रिशूलः

 

शूर

परकीयानथोद्देश्य प्रधानपुरुषांस्तथा ।
सुस्विन्नान् पिष्टकवरान् क्षुरेणोत्‌कृत्य भागशः ।।अग्नि २६१.२२ ।।
अभि त्वा शूर णोनुमो मन्त्रेणानेन मन्त्रवित् ।
कृत्वा सर्षपतैलाक्तान् क्रोधेन जुहुयात्ततः ।। २६१.२३ ।।
एतत् कृत्वा बुघः कर्म्म संग्रामे जयमाप्नुयात् ।
गारुड़ं वामदेव्यञ्च रथन्तरबृहद्रथौ ।। २६१.२४ ।।

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।

ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥१॥

न त्वावामन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।

अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥२॥ - शौ.अ.

(२०.१२६.८ ) किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने ।

(२०.१२६.८ ) किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥८॥

(२०.२३.३ ) इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद ।

(२०.२३.३ ) वीहि शूर पुरोलाशम् ॥३॥

(२०.६०.१ ) एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।

(२०.६०.१ ) एवा ते राध्यं मनः ॥१॥

(२०.७३.१ ) तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि ।

(२०.७३.१ ) त्वं नृभिर्हव्यो विश्वधासि ॥१॥

(२०.७४.४ ) ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।

(२०.७४.४ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥४॥

(२०.७९.२ ) मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।

(२०.७९.२ ) त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥२॥

 

शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे ।

अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ॥१.१३३.६॥

 

बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः।

धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः।

तोषितो येन रुद्रोऽपि कः पार्थं प्रतिघातयेत्।। - महाभारत द्रोण १५८.२३/१५९.२३

शूरा बहुविधाः प्रोक्तास्तेषामर्थास्तु मे शृणु।

शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव हि।।

यज्ञशूरा दमे शूराः सत्यशूरास्तथा परे।

युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः।।

बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथा परे।

साङ्ख्यशूराश्च बहवो योगशूरास्तथा परे।

अरण्ये गृहवासे च त्यागे शूरास्तथा परे।।

आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः।

तैस्तैश्च नियमैः शूरा बहवः सन्ति चापरे।

वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः।।

गुरुशुश्रूषया शूराः पितृशुश्रूषया परे।

मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथा परे।।

अरण्ये गृहवासे च शूराश्चातिथिपूजने।

सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान्।। महाभारत अनुशासन 13-110-27a

जगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् ।

विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दाः ॥१॥ ऋ.१०.४७.१