पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Shamku - Shtheevana)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

 

Shamku -  Shankushiraa  ( words like Shakata/chariot, Shakuna/omens, Shakuni, Shakuntalaa, Shakti/power, Shakra, Shankara, Shanku, Shankukarna etc. )

Shankha - Shataakshi (Shankha, Shankhachooda, Shachi, Shanda, Shatadhanvaa, Shatarudriya etc.)

Shataananda - Shami (Shataananda, Shataaneeka, Shatru / enemy, Shatrughna, Shani / Saturn, Shantanu, Shabara, Shabari, Shama, Shami etc.)

Shameeka - Shareera ( Shameeka, Shambara, Shambhu, Shayana / sleeping, Shara, Sharada / winter, Sharabha, Shareera / body etc.)

Sharkaraa - Shaaka   (Sharkaraa / sugar, Sharmishthaa, Sharyaati, Shalya, Shava, Shasha, Shaaka etc.)

Shaakataayana - Shaalagraama (Shaakambhari, Shaakalya, Shaandili, Shaandilya, Shaanti / peace, Shaaradaa, Shaardoola, Shaalagraama etc.)

Shaalaa - Shilaa  (Shaalaa, Shaaligraama, Shaalmali, Shaalva, Shikhandi, Shipraa, Shibi, Shilaa / rock etc)sciple, Sheela, Shuka / parrot etc.)

Shilaada - Shiva  ( Shilpa, Shiva etc. )

Shivagana - Shuka (  Shivaraatri, Shivasharmaa, Shivaa, Shishupaala, Shishumaara, Shishya/de

Shukee - Shunahsakha  (  Shukra/venus, Shukla, Shuchi, Shuddhi, Shunah / dog, Shunahshepa etc.)

Shubha - Shrigaala ( Shubha / holy, Shumbha, Shuukara, Shoodra / Shuudra, Shuunya / Shoonya, Shoora, Shoorasena, Shuurpa, Shuurpanakhaa, Shuula, Shrigaala / jackal etc. )

Shrinkhali - Shmashaana ( Shringa / horn, Shringaar, Shringi, Shesha, Shaibyaa, Shaila / mountain, Shona, Shobhaa / beauty, Shaucha, Shmashaana etc. )

Shmashru - Shraanta  (Shyaamalaa, Shyena / hawk, Shraddhaa, Shravana, Shraaddha etc. )

Shraavana - Shrutaayudha  (Shraavana, Shree, Shreedaamaa, Shreedhara, Shreenivaasa, Shreemati, Shrutadeva etc.)

Shrutaartha - Shadaja (Shruti, Shwaana / dog, Shweta / white, Shwetadweepa etc.)

Shadaanana - Shtheevana (Shadaanana, Shadgarbha, Shashthi, Shodasha, Shodashi etc.)

 

 

श्रौतयज्ञप्रक्रिया-पदार्थानुक्रमकोषः

-         प. पीताम्बरदत्त शास्त्री

(राष्ट्रियसंस्कृतसंस्थानम्, नईदिल्ली, २००५)

प्राजहित- १. प्राजहित: पुरातनो गार्हपत्य उच्यते (तु०-का० श्रौ० ८।६।२१ विद्याधरः) २प्राजहित: प्राचीनवंशस्थः पश्चिमवह्निरूपो मुख्यो गार्हपत्य एव । इयं च पूर्वाचार्यसंज्ञा । द्र० मी०को० पृ० २८४५, प्रजहित-।

 

शालाद्वार्य- (आध्व०, सा०) शालाद्वारे भव: अग्नि: शालाद्वार्य उच्यते । स च ज्योतिष्टोमे तद्विकारेषु च सोमेषु गार्हपत्याख्यया व्यवह्रियते । तदुक्तम्-स गार्हपत्योऽतः' (का० श्रौ० ८।३ ।२६) इति । तेन उक्तेषु सोमे, गार्हपत्यकार्यं शालाद्वार्ये अग्नौ भवतीति विशेषोऽवधेयः।

 

शालामुखीय-   पशुयज्ञेषु ऐन्द्राग्न प्रकृतिके निरूढपशुबन्धे प्राकृत: आहवनीय: शालामुखीय उच्यते। तत्र पशुपुरोडाशप्रैषानन्तरमाग्नीध्रः पाणी संमृश्य शालामुखीयस्य (प्राकृतस्याहवनीयस्य) पुरस्ताद् दर्भेषु स्फ्यम्, एकादशकपालानि, शूर्पम्, कृष्णाजिनम्, उलूखलम्, मुसलम्, दृषदम्, उपलाम्, मोक्षणम्, पिष्टोद्वयनीम्, प्रणीताप्रणयनम्, दारुपात्रीम् मदन्तीं चेति पात्राणि सादयतीति विशेषोऽवगन्तव्य: द्र० पशुपुरोडाशनिर्वापप्रैष-। श्रौ० प०नि० पृ० १३३ ।

शालामुखीय--

प्रकृतौ प्रयुक्त: गार्हपत्योऽग्निरेव सोमेषु प्रयुक्त: शालामुखीयनाम्नाभिधीयते । अग्नीषोमीय: पशुपुरोडाश: शालामुखीये पच्यते इत्यवधेयम् । ३. प्राचीनवंशशालायां पूर्वभागे वर्तमान आहवनीय: शालामुखीयो नाम । द्र० मी०को० पृ० २८४४। ४. शालामुखीय: अग्नि: प्राचीनवंशे य: पूर्वमाहवनीय: स एव अग्निप्रणयनोत्तरं गार्हपत्य: संपद्यते । स एव शालाया: मुखे भव शालामुखीयो नाम शालामुखीय: अग्नि: प्राचीनवंशशालाया: पूर्वभागे वर्तमान: आहवनीय एव । अयं च महावेदिनिष्पत्त्यनन्तरं गार्हपत्य: संजायते । शालामुखीय: पशौ वरुणप्रघासेषु चास्ति । द्र० मी०को० पृ० ३९११ । ।

शालामुखीयेऽग्नीषोमप्रणयनहोम-  अग्नीषोमीयपशौ महावेदिस्तरणानन्तरं उन्नेता ग्रावादि स्थाल्यन्तं सर्वमुपयुक्तं प्राग्वंशे सादयति । तत: अध्वर्युः अग्नीषोमीयपशुशाखाया: पशुवत् पवित्रं करोति तत: पशुकुम्भी, शाखापवित्रं, वपाश्रपण्यौ, रशने, शूलं, मैत्रावरुणदण्डं, शालामुखीयस्योत्तरतो दर्भेषु सादयति । 'शुन्धध्वम्' इति प्राकृतमन्त्रेण प्रोक्षति। आग्नीध्र: पाणी संमृश्याग्नीन् प्रज्वाल्य परिस्तीर्य शालामुखीयस्याग्रे दर्भान् संस्तीर्य तेषु स्फ्यमग्निहोत्रहवणीं जुहूमित्यादि पशुवत्पात्राणि आसाद्य गार्हपत्ये आज्यं विलापयति । प्रतिप्रस्थाता पाणिसंमर्शनं कृत्वा ब्रह्माणं दक्षिणे उपवेश्य शालामुखीयादारभ्योत्तरवेदिपर्यन्तं पृष्ठ्यां स्तीर्त्वा पवित्रे कृत्वा यजमान वाचं यच्छेति यजमानं सम्प्रेष्याग्निहोत्रहवणीं प्राकृतमन्त्रेणादाय तथैव प्रतितप्य प्रोक्षणीसंस्कारं कृत्वा पात्राणि प्राकृतमन्त्रेण प्रोक्ष्य आज्यं दधि च तथैव निरूप्य अधिश्रित्योभयं पर्यग्निं करोति । ततोऽध्वर्यु: पाणी संमृश्य प्राकृतेन मन्त्रेण स्फ्यादानादि कृत्वा खरदेरो स्फ्यं स्तब्ध्वा सम्प्रैषमाह—'प्रोक्षणीरासादय' इत्यादि पशुवत् । आग्नीध्रः प्रोक्षणी: सादयति । अध्वर्युः स्वयं प्रकृतिवद् ददाति । प्रतिप्रस्थातोत्तरवेदिसमीपे इध्माबर्हिषी उपसादयति । आग्नीध्र: दक्षिणेन स्रुवं स्वधितिं सव्येन हस्तेन वेदाग्राणि आदाय शालामुखीये 'अग्नेर्वाम्' इति मन्त्रेण प्रतितप्य स्रुवमन्त्रेणैवोभयं सम्मृज्य प्रतिप्रस्थात्रे प्रयच्छति । प्रतिप्रस्थाता जुह्वादीन् पशुवत् प्रतितप्य संमृज्य वेदाग्राणि शालामुखीये प्रक्षिप्य पात्राणि अग्रेणोत्करं तृणेषु सादयित्वा पुनरादाय शालामुखीयसकाशे निदधाति । पत्नीं शालामुखीयमाज्यं चावेक्षयित्वा यजमानमाज्यमवेक्षयति । अध्वर्युः प्रोक्षणीनामुत्तरत आनीयाज्यं स्वयमवेक्ष्योत्पूय प्रोक्षणीश्चोत्पूयाज्यं दधि चादाय ब्रह्मयजमानाभ्यां सह प्राग्वंशं गत्वा वेद्यां स्रुक्षु पशुवदाज्यानि गृहीत्वा परिकर्मिभ्य: प्रदाय अप: उपस्पृश्य ब्रह्मणे सोमं राजानं ददाति ब्रह्मा राजानमादाय शालामुखीयमग्रेण परिश्रित्योत्तरतोऽवस्थायान्वग्निं नयति। अध्वर्युः शालामुखीये प्रणयनीयमिध्मं आधाय चात्वालादुपयमनी: कल्पयित्वा पुराणगार्हपत्ये आज्यं विलाप्योत्पूय अध्वर्युं यजमान:, तं पत्नी, तां पुत्रा:, तान् पौत्रा:, तान् ज्ञातयश्चेति ज्येष्ठानुक्रमेण समन्वारब्धेषु सत्सु प्रचरण्यां चतुर्गृहीतं गृहीत्वा शालामुखीये जुहोति 'त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्य उरु यन्तासि वरुथँ स्वाहा' इति। सोमायेदमिति यजमान: । तत: स्रुवेण जुहोतिजुषाण आज्यस्या वेतु स्वाहा' इति । अग्नय इदमिति यजमानः । अयं सौमिके शालामुखीये होम उच्यते । द्र० श्रौ०प०नि० पृ० २४९-२५१ ।

शालामुखीयोपस्थान- (आध्व०)

अग्नीषोमीयपशौ उत्तरवेद्यां ब्रह्मसदनोपस्थानानन्तरं सदस: पश्चिमद्वारे एव तिष्ठन् अध्वर्यु: शालामुखीयमुपतिष्ठते --'अजोऽस्येकपाद रौद्रेण० सी:' इति । द्र० श्रौ०प०नि० पृ०२४८, ब्रह्मसदनोपस्थान-।

शालामुखीयोपस्थान- प्रथमायां सोमसंस्थायामग्निष्टोमे सप्रवर्ग्ये प्रवर्ग्यवत्सु च गोप्त्रादेशप्रैषानन्तरं यथेतमेत्य गार्हपत्ये 'उदु त्यम्' इतिचित्रम्' इति च द्वाभ्यामृग्भ्यां स्रुवाहुतीर्हुत्वा सर्वे शालामुखीयमुपतिष्ठन्ते।इमं नूषु त्यमस्मभ्यँ सम्। अग्ने देवेषु प्रवोच:' इति । तत: आग्नीध्रीयदेशे उत्तरां शान्ति पठन्ति । इदमन्तिमं प्रवर्ग्यसंबन्धिशालामुखीयोपस्थानमुच्यते। द्र० उत्तरशान्ति- गोप्त्रादेशप्रैष-, श्रौ०प०नि० पृ० २३८ ।