पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Shamku - Shtheevana)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

 

Shamku -  Shankushiraa  ( words like Shakata/chariot, Shakuna/omens, Shakuni, Shakuntalaa, Shakti/power, Shakra, Shankara, Shanku, Shankukarna etc. )

Shankha - Shataakshi (Shankha, Shankhachooda, Shachi, Shanda, Shatadhanvaa, Shatarudriya etc.)

Shataananda - Shami (Shataananda, Shataaneeka, Shatru / enemy, Shatrughna, Shani / Saturn, Shantanu, Shabara, Shabari, Shama, Shami etc.)

Shameeka - Shareera ( Shameeka, Shambara, Shambhu, Shayana / sleeping, Shara, Sharada / winter, Sharabha, Shareera / body etc.)

Sharkaraa - Shaaka   (Sharkaraa / sugar, Sharmishthaa, Sharyaati, Shalya, Shava, Shasha, Shaaka etc.)

Shaakataayana - Shaalagraama (Shaakambhari, Shaakalya, Shaandili, Shaandilya, Shaanti / peace, Shaaradaa, Shaardoola, Shaalagraama etc.)

Shaalaa - Shilaa  (Shaalaa, Shaaligraama, Shaalmali, Shaalva, Shikhandi, Shipraa, Shibi, Shilaa / rock etc)sciple, Sheela, Shuka / parrot etc.)

Shilaada - Shiva  ( Shilpa, Shiva etc. )

Shivagana - Shuka (  Shivaraatri, Shivasharmaa, Shivaa, Shishupaala, Shishumaara, Shishya/de

Shukee - Shunahsakha  (  Shukra/venus, Shukla, Shuchi, Shuddhi, Shunah / dog, Shunahshepa etc.)

Shubha - Shrigaala ( Shubha / holy, Shumbha, Shuukara, Shoodra / Shuudra, Shuunya / Shoonya, Shoora, Shoorasena, Shuurpa, Shuurpanakhaa, Shuula, Shrigaala / jackal etc. )

Shrinkhali - Shmashaana ( Shringa / horn, Shringaar, Shringi, Shesha, Shaibyaa, Shaila / mountain, Shona, Shobhaa / beauty, Shaucha, Shmashaana etc. )

Shmashru - Shraanta  (Shyaamalaa, Shyena / hawk, Shraddhaa, Shravana, Shraaddha etc. )

Shraavana - Shrutaayudha  (Shraavana, Shree, Shreedaamaa, Shreedhara, Shreenivaasa, Shreemati, Shrutadeva etc.)

Shrutaartha - Shadaja (Shruti, Shwaana / dog, Shweta / white, Shwetadweepa etc.)

Shadaanana - Shtheevana (Shadaanana, Shadgarbha, Shashthi, Shodasha, Shodashi etc.)

 

 

शालग्राम

पुराणेषु आख्यानमस्ति यत् तुलस्याः पतिः असुरः शंखचूडः शिवेन सह युद्धं करोति। किन्तु तुलस्याः पातिव्रत्यप्रभावेन शंखचूडस्य पराजयः संभवं नास्ति। तदा उपायरूपेण विष्णुः शंखचूडस्य रूपं धारयित्वा तुलस्याः पातिव्रत्यं खंडयति। यदा तुलसी शंखचूडरूपधारी विष्णोः अभिज्ञानं करोति, तदा सा विष्णुं शपयति – तव हृदयं पाषाणसदृशं अस्ति, अतएव पाषाणं भव। विष्णुः कथयति यत् त्वमपि गण्डकी नदी भव। तत्र गण्डक्यां कृमयः पाषाणेषु चक्राणां सृजनं करिष्यन्ति। सृष्ट्यां कोपि कालः आसीत् यदा चक्राकाराणां कीटानां बाहुल्यमासीत्। तेषां चक्राकाराः अवशेषाः पाषाणेषु ग्रथिताः सन्ति येषां संज्ञा शालग्राम अथवा शालिग्रामः अस्ति।

पुराणेषु शालग्रामप्रदेशे तपःकरणस्य, मृत्योः प्रापणस्य अति महत्त्वमस्ति। यथा, पद्मपुराणे २.५.१३ कथनमस्ति यत् सोमशर्मा ब्राह्मणः शालग्रामे प्राणत्यागं करोति, येन कारणेन सः हिरण्यकशिपु – पुत्र प्रह्लादरूपेण जन्म गृह्णाति।

शालग्रामस्य आख्यानस्य वैदिकमूलं किमस्ति। सोमयागादि कर्मकाण्डेषु पशोः अङ्गानां श्रपणं भवति, तदनन्तरं तेषां अङ्गानां देवेभ्यः अर्पणं भवति। पशोः यः हृदयं अस्ति, तस्य श्रपणं पृथक्तः, हृदये शूलवेधनान्तरं भवति। अयं हृदयस्य शोधनस्य विधिः अस्ति। हृदयः प्रेम्णः स्थानमस्ति। शूलः केन प्रकारेण हृदयस्य शोधनं करोति, अन्वेषणीयः। लौकिकरूपेण, हृदयशूलः मृत्योः कारणं भवति। अन्यपक्षे, लोके यत्किंचिदपि व्यवहारमस्ति, तत् तावत् सफलं नास्ति यावत् तेन हृदयशूलं न उत्पद्यते। किं शालग्रामस्य पूर्वरूपः शूलग्रामः अस्ति, विचारणीयः।

पुराणेषु चक्रनिर्मातकानां येषां कृमीणां उल्लेखः अस्ति, तेषां आध्यात्मिकरूपः किमस्ति। आधुनिकचिकित्साशास्त्रानुसारेण बृहदान्त्रे बैक्टीरियासंज्ञकानां क्रिमीणां बाहुल्यं भवति। एते क्रिमयः प्रोटीन, स्टार्चादि अन्नस्य ये अवयवाः क्षुद्रान्त्रे न पचन्ति, तेषां किण्वनं कुर्वन्ति। बृहदान्त्रस्य अस्तित्वं मुख्यरूपेण मनुष्येषु एव अस्ति, न अन्येषु पशुषु। एषां क्रिमीणां उत्पत्तिकारणं किमस्ति, अयं न निश्चितं अस्ति। बृहदान्त्रस्य यः एपेण्डिक्ससंज्ञकः अंगः अस्ति, अनुमानमस्ति यत् अयं क्रिमीभ्यः उत्पत्यै सम्यक् रसानां सृजनं करोति। पुराणेषु क्रिमीणां उत्पत्तिविषये विशिष्ट मतमस्ति। पद्मपुराणे २.५३.९४ अनुसारेण - निर्मलः शुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च ॥ अनुमानमस्ति यत् यः अशुद्धवीर्यमस्ति, तत् सर्वं क्रिमीणां उत्पत्यै कारणरूपः अस्ति। पद्मपुराणादिषु कपालप्रदेशस्थितानां क्रिमीणां नामधेयानि उल्लिखिताः सन्ति। एवंप्रकारेण, यद्यपि बाह्यसृष्ट्यां चक्रनिर्मातकानां क्रिमीणां अस्तित्वं कालक्रमेण अतिप्राचीनकाले आसीत्, किन्तु आध्यात्मिकरूपेण तेषां सर्जनं सर्वकाले संभवमस्ति।